Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-११,[नि. ३१७]
२९३ असुयमेव भवति, अहवा इहलोए परलोए य सोहइ पत्तदाई, अहवा एवंगुणजाइए भिक्खू बहुस्सुए भवति, धम्मो कित्ती जसो य हवइ, सुयमाराहियं हवइ, अहवा इहलोए परलोए य विरायइ, अहवा सीलेण य सुएण य" इति सूत्रार्थः ।। पुनर्बहु-श्रुतस्तवमाहमू.(३४३) जहा से कंबोयाणं, आइत्रो कंथए सिया।
आसे जवेण पवरे, एवं हवइ बहुस्सए॥ वृ. 'यथा' येन प्रकारेण 'स' इति प्रतीत: 'काम्बोजदेशोद्भवानां प्रक्रमादश्वानां, निर्धारणे षष्ठी, आकीर्णः' व्याप्तः, शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽश्वो, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेर्न सन्त्रस्यति, स्यात्' भवेत् 'अश्वः' तुरङ्गमः 'जवेन'वेगेन 'प्रवरः' प्रधानः ‘एवम्' इत्युपनये तत ईदृशो भवति बहुश्रुतः, जिनधर्मप्रपन्ना हि वतिनः काम्बोजा इवाश्वेपुजातिजवादिभिर्गुणैरन्यधार्मिकापेक्षया श्रुतशीलादिभिर्वरा एव, अयं त्वाकीर्णकन्थकाश्ववत् तेष्वपि प्रवर इति सूत्रार्थः । किञ्चमू. (३४४) जहाइन्नसमारूढे, सूरे दढपरक्कमे।
उभओ नंदिघोसेणं, एवं हवइ बहुस्सए। वृ.यथा आकीर्णं-जात्यादिगुणोपेतं तुरङ्गमं सम्यगारुढ:-अध्यासितः आकीर्णसमारुढः, सोऽपि कदाचित् कातर एव स्यादत आह-'शूरः' चारभट: दृढः-गाढः पराक्रमः-शरीरसाम
र्थ्यात्मको यस्य स तथा, 'उभउ'त्ति उभयतो वामतो दक्षिणतश्च यद्वाऽग्रतः पृष्ठतश्च 'नन्दीघोषेण' द्वादशतूर्यनिनादात्मके न, यद्वा आशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद्घोषेण बन्दिकोलाहलात्मकेन, लक्षणे तृतीया, एवं भवति बहुश्रुतः, किमुक्तं भवति?-यथैवंविधः शूरो न केनचिदभिभूयते न चान्यस्तदाश्रितः, तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्त: तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः स्वाध्यायघोषरूपेण स्वपक्षपरपक्षयोर्वा चिरं जीवत्वसौ येनानेन प्रवचनमुद्दीपितमित्याद्याशीर्वचनात्मकेन नान्दीघोषेणोपलक्षित: परतीथिभिरतीव मदावलिप्तैरवि नाभिभवितुं शक्यः, न चात्र प्रतपत्येतदाश्रितोऽन्योऽपि कथञ्चिज्जीयत इति सूत्रार्थः ।। तथामू.(३४५) जहा करेणुपरिकिन्ने, कुंजरे सट्ठिहायणे।
बलवंते अप्पडिहए, एवं भवइ बहुस्सए॥ वृ. 'यथा' करेणुकाभिः-हस्तिनीभिः परिकीर्णः-परिवृतो यः स तथा, न पुनरेकाक्येव 'कुञ्जर:' हस्तीषष्टिायनान्यस्येति षष्टिहायन:-षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्षं बलोपचयः ततस्तदपचय इत्येवमुक्तम्, अत एव च 'बलवंते'त्ति बलं-शरीरसाम
र्थ्यस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः?-नान्यैर्मदमुखैरपि मतङ्गजैः परांमुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्पत्तिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभिर्वृतः ष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्बहुभिरपि न प्रतिहन्तुं शक्यत इति सूत्रार्थः ।। अन्यच्चमू. (३४६) जहा से तिक्खसिंगे, जायक्खंधे विरायइ।
वसमे जूहाहिवती, एवं भवति बहुस्सुए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388