Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३००
-
उत्तराध्ययन- मूलसूत्रम् - १-१२ / ३५९ अह अन्नया जक्खाययणं कोसलियरायधूया भद्दा नाम पुप्फधूवमादी गहाय अच्चिरं निग्गया पयाहिणं करेमाना तं दट्ठूण कालं विगरालं छित्तिकाऊण निट्ठूहति, जक्खेण रुट्ठेण अन्नइट्ठा काय, नीया नीयघरं, आवैसिया भणति ते नवरं मुंचामि जइ नं तस्सेव देह, तं च साहति - जहा एईए सो साहू ओदूढो, रन्नावि जीवउत्तिकाऊण दिन्ना, महत्तरियाहिं समं तत्थाणीया, रत्ति ताहिं भण्णति-वच्च पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिमं ठिओ नेच्छति, ताहे जक्खोव इसिसरीरं छाइऊण दिव्वरूवं दंसेति, पुणो मुणिरूवं, एवं सव्वरत्ति वेलंबिया, पभाए नेच्छत्ति काऊणं पविसंती सघरं पुरोहिएण राया भणिओ - एसा रिसिभज्जा बंभणाणं कप्पइत्ति, दिन्ना तस्सेव । सो य जन्ने दिक्खिज्जिकामो सा अन्नेन लद्धा, सावि जन्नपत्तित्तिकाऊण दिक्खिया । इत्युक्तः सम्प्रदायोऽवसतिश्च नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति सम्भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्सोवगकुलसंभूओ, गुणुत्तरधरो मुनी । हरिएस बलो नाम, आसि भिक्खू जिइंदिओ ॥
मू. ( ३६० )
वृ. श्वपाकाः-चाण्डालास्तेषां कुलम्-अन्वयस्तस्मिन् सम्भूतः - समुत्पन्नः श्वपाककुलसम्भूतः, तत्किं तत्कुलोत्पत्त्यनुरूप एवायमुत नेत्याह-गुणेषूत्तराः - प्रधाना गुणोत्तराः - ज्ञानादयः तान् धारयति गुणोत्तरधरः, पठन्ति च - 'अनुत्तरधरे 'त्ति, तत्र न विद्यते उत्तरम् - अन्यत्प्रधानमेषामित्यनुत्तराः, ते च प्रक्रमात्प्रकर्षप्राप्ता ज्ञानादय एव गुणास्तान् धारयत्यनुत्तरोधरो, यद्वा अनुत्तरान् गुणान् धारयतीत्यनुत्तरधर इति मयूरव्यंसकादिषु द्रष्टव्यो, मुणति-प्रतिजानीते सर्व्वविरतिमिति मुनिः, श्वपाककुलोत्पन्नोऽपि कदाचित्संवासादिनाऽन्यथैव प्रतीतः स्यादत आह- हरिकेशः सर्वत्र हरिकेशतयैव प्रतीतो बलो नाम-बलाभिधानः आसद्- अभूत, तस्य च मुनित्वं प्रतिज्ञामात्रेणापि स्यादत आह-'भिक्खू' त्तिभिनत्ति यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमष्टविधं वा कर्मेति भिक्षुः, अत एव जितानि - वशीकृतानीन्द्रियाणि - स्पर्शनादीन्यनेनेति जितेन्द्रिय इति सूत्रार्थः ॥ मू. (३६१ ) इरिएसण भासाए, उच्चारसमिईसु य ।
जओ आयाणनिक्खेिवे, संजओ सुसमाहिओ ॥
वृ.ईरणमीर्य्या एष्यत इत्येषणा अनयोर्द्वन्द्वस्ततस्ताभ्यां सहिता भाष्यत इति भाषा ईर्येषणाभाषेति मध्यमपदलोपी समासः, तस्यां तथा उच्चारं पुरीषपरिष्ठापनमषीहोच्चार उक्तः, प्रश्रवणपरिष्ठापनोपलक्षणं चैतत्, तद्विषया समितिः- सम्यग्गमनं, तत्र सम्यक्प्रवर्त्तनमितियावत्, उच्चारसमितिः, तस्यां च यतत इति यतो-यत्नवान्, तथा आदानं च-ग्रहणं पीठफलकादेनिक्षेपश्च-स्थापनं तस्यैव आदाननिक्षेपं, तत इहापि चकारानुवृत्तेस्तस्मिंश्च, इह च 'उच्चारसमिएसु'त्ति एकत्वेऽपि बहुवचनं सूत्रत्वात्, समितिशब्दश्च मध्यव्यवस्थितो डमरुकमणिरिवाद्यन्तयोरपि सम्बध्यते, ततश्च ईर्यासमितावेषणासमितौ भाषासमितावादाननिक्षेपसमिताविति योज्यं, यद्वा ईर्येषणाभाषोच्चारमितिष्वत्येकमेव पदं, 'भासाए' इति च एकारोऽलाक्षणिकः, स चैवं कीदृगित्याह- संयतः - संयमान्वितः सुसमाहितः- सुष्ठुसमाधिमानिति सूत्रार्थः ॥ तथा
मू. (३६२ )
Jain Education International
मनगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ ।
For Private & Personal Use Only
-
www.jainelibrary.org
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388