Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 313
________________ ३१० उत्तराध्ययन-मूलसूत्रम्-१-१२/३८८ णादीनि तद्विषया चेष्टा कर्मचेष्टेह गृह्यते-'निब्भेरिय'त्ति प्रसारितान्यक्षीणि-लोचनानि येषां ते तथोक्तास्तान्, रुधिरं वमद्-उद्गिरत् 'उ8मुह'त्ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्रान्, अत एव निर्गतानि-नि:सृतानि जिह्वाश्च प्रतीता नेत्राणि च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, मू. ( ३८९) ते पासिया खंडिय कट्ठभूए, विमणो विसनो अह माहणो सो। इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ! ।। वृ.'तानि'त्युक्तरूपान् ‘दृष्ट्वा' अवलोक्य खंडिय'त्ति आर्षत्वात्सुपो लुकि खण्डिकान्छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमा विगतमिव विगतं मनः-चित्तमस्येति विमनाः, विषण्णः-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथे'ति दर्शनानन्तरं 'ब्राह्मणो' द्विजातिः 'स' इति सोमदेवनामा 'ऋषि' तमेव हरिकेशबलनामानं मुनि ‘प्रसादयति' प्रसत्ति ग्राहयति, सह भार्यया-पत्न्या तयैव भद्राभिधानया वर्त्तते इति सभार्याकः, कथमित्याह-हीलां च-अवज्ञां निन्दां च-दोषोद्घट्टनं 'खमाह'त्ति क्षमस्व सहस्व भंतेति' सूत्रद्वयार्थः ।। पुनः स प्रसादनामेवाहमू. (३९०) बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते ! महप्पसाया इसिणो हवंति, न हमनी कोवपरा हवंति।। वृ. बालैः-शिशुभिर्मूढैः-कषायमोहनीयोदयाद्विचित्तता गतैः अत एव चाज्ञैः-हिताहितविवेकविकलैः 'यदि' त्युपप्रदर्शने 'हीलिताः' अवज्ञाताः 'तस्स'त्ति सूत्रत्वात् तत् 'खमाह'त्ति क्षमध्वं भदन्त !, अनेनैतदाह-यतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ?, यतोऽनुकम्पनीया एवामी, उक्तं च केनचिद्-"आत्मद्रुहममर्यादं, मूढमुज्झितसत्पथम्। सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम्।" किंच-महान् प्रसाद:-चित्तप्रसत्तिरूपो येषां ते महाप्रसादा ऋषयः-साधवो भवन्ति, व्यतिरेकमाह-'नहु'त्ति न पुनर्मुनयो-यतयः 'कोपपराः' क्रोधवशगा भवन्ति, भिन्नवाक्यत्वाच्च मुनिग्रहणमदुष्टमेवेति सूत्रार्थः ।। मुनिराहमू. (३९१) पुब्विं च इण्हि च अनागयं च, मनप्पओसो न मे अत्थि कोई। जक्खा हु वेयावडियं करिति, तम्हा हु एए निहया कुमारा। वृ. 'पुव्वि च'त्ति पूर्वं च पुरा इदानीं च-अस्मिन् काले 'अनागय चे'ति अनागते च भविष्यकाले मनःप्रद्वेष:-चित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणत्वादासीद्भविष्यति च, 'कोऽपि'त्यल्पोऽपि, इह च भाविनि प्रमानाभावेऽपि 'अनागतं प्रत्याचक्ष' इति वचनादनागतस्यापि तस्य निषिद्धत्वाच्छ्रुतज्ञानबलतः कालत्रयपरिज्ञानसम्भवाच्चैवमभिधानं, पठन्ति च 'पुव्वि च पच्छा व तहेव मज्झे' तत्र च पूर्वंवा पश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव, न च कुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, 'यक्षा' देवविशेषा 'हु'रिति यस्माद्वैयावृत्त्यं-प्रत्यनीकप्रतिघातरूपं 'कुर्वन्ति' विदधति, 'तम्ह'त्ति तस्मात् हुरवधारणे ततस्तस्मादेव हेतोरेते-पुरोवर्तिनो नितरां हता:-ताडिता निहताः कुमाराः, न तु मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ।। सम्प्रति तद्गुणा कृष्टचेतस उपाध्यायप्रमुखा इदमाहु:मू.(३९२) अत्थ च धम्मं च वियाणमाना, तुन्भे नवि कुप्पह भूइपन्ना। तुभंतु पाए सरणं उवेमो, समागया सव्वजनेन अम्हे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388