Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 320
________________ ३१७ अध्ययनं-१३,[नि. ३३५ ] तदङ्गजो मुनिचन्द्रः, स च राजाऽन्यदा समुत्पन्नसंवेगस्तमेव सुतं राज्येऽभिषिच्य प्रव्रज्यामशिश्रियत्, प्रतिपाल्य च प्रव्रज्यामपगतमलकलङ्कोऽपवर्गमगमत् । अन्यदा च सागरचन्द्राचार्या बहुशिष्यपरिवृतास्तत्रागताः निर्गतश्च मुनिचन्द्रनृपतिस्तद्वन्दनाय, दृष्टाश्चानेन सूरयः, स्तुत्वा च तानुपविष्टस्तदन्तिके, श्रुतश्च तत्कथितो विशुद्धधर्मः, समुत्पन्नश्चास्य तत्करणाभिलाषः, ततः स्वसुतं राज्ये निवेश्य प्रतिपन्नोऽसौ श्रामण्यं, गृहीता चानेन ग्रहणासेवनो-- भयलक्षणा शिक्षा, प्रवृत्ताश्चान्यदा सुसार्थेन सगच्छाः सागरचन्द्रसूरयोऽध्वानं, मुनिचन्द्रमुनिश्च तैः समं व्रजन् गुरुनियोगादेकाक्येव भक्तपाननिमित्तं क्वचित्प्रत्यन्तग्रामे प्राविशत्, प्रविष्टे चास्मिन् प्रवृत्तः सार्थो गन्तुं, प्रचलिताः सहानेन सूरयो, विस्मृतश्चायमेषां, प्रस्थितश्च क्षणान्तरेण गृहीतभक्तपानस्तदनुमार्गेण, पतितश्च मूढदिक्चक्रवालः सार्गवेषणापरो, मार्गात्परिभ्रष्टो भ्रमदनेकशार्दूलजालां द्विपकदम्बकभज्यमानशालशल्लकीप्रभृतितरुनिकरामनर्वाकपारतया च संसारानुकारिणीं विन्ध्याटवीं, तत्र चासौ परिभ्रमन् गिरिकन्दराण्यतिक्रामन्नतिनिम्नोन्नतभूभागान् पश्यन् भयानकानेकद्वीपितरक्षाच्छभल्लादिश्वापदान् उत्तीर्णस्तृतीयदिने, तदा च क्षुत्क्षामकुक्षिः शुष्कोष्ठकण्ठतालुरेकत्र वृक्षच्छायायां मूर्छावशनष्टचेष्टो दृष्टश्चतुर्भिर्गोपालदारकैः, उत्पन्ना अमीषामनुकम्पा, सिक्तत्वरितमागत्य गोरसोन्मिश्रतिजलेन, पायितोऽसौ तदेव, समाश्वस्तश्च नीतो गोकुलं, प्रतिजागरितश्च तत्कालोचितकृत्येन, प्रतिलाभितः प्रासुकानादिना, कथितस्तेषामनेन जिनप्रणीतधर्मः, गृहीतश्चायमेतैर्भावगर्भ, गतश्चासौ विवक्षितस्थानं, तं च मलदिग्धदेहमवलोक्य द्वयोः समजनि जुगुप्सा, तदनुकम्पातः सम्यक्त्वानुभावतश्च निर्वतितं चतुर्भिरपि देवायुः, जग्मुश्च देवलोकं, ततश्च्युतौ चाकृतजडुगुप्सौ तु कतिचिद्भवान्तरितौ द्वाविषुकारपुरे द्विजकुले जातो, तद्वक्तव्यता च इषुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सकौ तौ दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ, तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारो, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधानाद्, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात्, इह च नामनिष्पन्ननिक्षेपे प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः। उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसर इथि सूत्रमुच्चारणीयं, तच्चेदम्मू.(४०७) जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरंभि। चलनीइ बंभदत्तो उववन्नो नलिन(पउम) गम्माओ॥ वृ. 'जातिपराजितः' इति जात्या-प्रस्तावाच्चाण्डालाख्या पराजितः-अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमानन्यायतो नृपेण नमुचिनाम्ना च द्विजेन चाण्डाल इति नगरनिष्कासनन्यक्कारादिना पुरा जन्मन्यपमानित इत्येवमुक्तः, यद्वा जातिभिः-दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजित इति-पराभवं मन्यमानोऽहो! अहमधन्यो यदित्थं नीचास्वेव जातिषु पुनः पुनरुत्पन्न इति, 'खलुः' वाक्यालङ्कारे, स चैवंविधः किमित्याह- 'कासि'त्ति अकार्षीत्, किमित्याह-'निदानं' चक्रवर्ति पदावाप्तिर्मम भवेदित्येवमात्मकं 'तुः' पूरणे, क्वेदं कृतवान् ? इत्याह-'हत्थिणपुरंमि'त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः ‘उववन्नो'त्ति उत्पन्नः 'पद्मगुल्मात्' इति नलिनगुल्मविमानाच्च्युत्वेति शेषः, इति सूत्राक्षरार्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388