Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 318
________________ अध्ययनं-१२,[नि.३२७] ३१५ 'कहिंसिन्हाओ वे' ति वाशब्दस्य भिन्नक्रमत्वात्कस्मिन् वा स्नातः-शुचिर्भूतो रज इव रजःकर्म जहासि-त्यजसि त्वं?, गम्भीराभिप्रायो हि भवांस्तत् किमस्माकमिव भवतोऽपि हुदतीर्थ एव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः, 'आचक्ष्व' व्यक्तं वद संयत! यक्षपूजित! 'इच्छाम:' अभिलपामो 'ज्ञातुम्' अवगन्तुं 'भवतः' तव 'सकाशे' समीपे इति सूत्रार्थः ।। मुनिराहमू. (४०५) धम्मे हरए बंभे संतितित्थे, अनाविले अत्तपसत्रलेसे। जहिं सिन्हाओ विमलो विसुद्धो, सुसइभूओ पजहामि दोसं। वृ. 'धर्मः' अहिंसाद्यात्मको हृदः कर्मरजोऽपहन्तृत्वाद्ब्रह्मेति-ब्रह्मचर्यं शान्तितीर्थं, तदासेवनेन हि सकलमलमूलं रागद्वेषाबुन्मूलितावेव भवतः, तदुन्मूलनाच्च न कदाचिन्मल्य सम्भवोऽस्ति, सत्याधुपलक्षणं चैतत्, तथा चाह "ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धि, न शुद्धितीर्थयात्रया।" अथवा 'ब्रह्मेति ब्रह्मचर्यवन्तो मतुब्लोपादभेदोपचाराद्वा साधव उच्यन्ते, सुव्यत्ययाच्चैकवचनं, 'संति' विद्यन्ते तीर्थानि ममेति गम्यते, उक्तं हि ___ "साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थं पुनाति कालेन, सद्यः साधुसमागमः ।।" किं च-भवत्प्रतीततीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता?, तथा चोक्तम् "कुर्याद्वर्षसहस्रं त, अहन्यहनि मज्जनम्। सागरेणापि कृत्स्नेन, वधको नैव शुद्धयति ।।" हृदशान्तितीर्थे एव विशिनष्टि-'अनाविले' मिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलत्वादेवात्मनो-जीवस्य प्रसन्ना-मानगप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन्, अथवा आप्ता-प्राणिनामिह परत्र च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन्नेवंविधे धर्महदे, ब्रह्माख्यशान्तितीर्थे च, यदा ब्रह्मशब्देन ब्रह्मचर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, 'जहिसि'त्ति यत्रास्मि स्नात इव स्नातः-अत्यन्तशुद्धिभवनाद्विमलो-भावमलरहितोऽत एवाती(व)विशुद्धो-गतकलङ्कः, 'सुसीतीभूओ'त्ति सुशीतीभूतो रागाद्युत्पत्तिविरहतः सुष्ठुशैत्यु प्राप्तः, पठ्यते च-'सुसीलभूओ'त्ति सुष्टु-शोभनं शीलं-समाधानं चारित्रं वा भूतः-प्राप्तः सुशीलभूतः प्रजहामि' प्रकर्षण त्यजामि दूषयन्ति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तं, अनेनैतदा- ममापि हुदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति, निगमयितुमाहमू. (४०६) एवं सिणाणं कुसलेण दिटुं, महासिणाणं इसिणं पसत्थं। जहिं सि न्हाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति। वृ. 'एतदि'त्यनन्तरमुक्तं स्नानं' रजोहीनं 'कुशलैः' प्रागुक्तरूपैर्दष्टं-प्रेक्षितभिदमेव च महास्नानं, न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वाद, अत एव चेदं ऋषीणां प्रशस्तंप्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यम्, अस्यैव फलमाह-'जहिंसि'त्ति सुब्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388