________________
अध्ययनं-१२,[नि.३२७]
३१५ 'कहिंसिन्हाओ वे' ति वाशब्दस्य भिन्नक्रमत्वात्कस्मिन् वा स्नातः-शुचिर्भूतो रज इव रजःकर्म जहासि-त्यजसि त्वं?, गम्भीराभिप्रायो हि भवांस्तत् किमस्माकमिव भवतोऽपि हुदतीर्थ एव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः, 'आचक्ष्व' व्यक्तं वद संयत! यक्षपूजित! 'इच्छाम:' अभिलपामो 'ज्ञातुम्' अवगन्तुं 'भवतः' तव 'सकाशे' समीपे इति सूत्रार्थः ।। मुनिराहमू. (४०५) धम्मे हरए बंभे संतितित्थे, अनाविले अत्तपसत्रलेसे।
जहिं सिन्हाओ विमलो विसुद्धो, सुसइभूओ पजहामि दोसं। वृ. 'धर्मः' अहिंसाद्यात्मको हृदः कर्मरजोऽपहन्तृत्वाद्ब्रह्मेति-ब्रह्मचर्यं शान्तितीर्थं, तदासेवनेन हि सकलमलमूलं रागद्वेषाबुन्मूलितावेव भवतः, तदुन्मूलनाच्च न कदाचिन्मल्य सम्भवोऽस्ति, सत्याधुपलक्षणं चैतत्, तथा चाह
"ब्रह्मचर्येण सत्येन, तपसा संयमेन च ।
मातङ्गर्षिर्गतः शुद्धि, न शुद्धितीर्थयात्रया।" अथवा 'ब्रह्मेति ब्रह्मचर्यवन्तो मतुब्लोपादभेदोपचाराद्वा साधव उच्यन्ते, सुव्यत्ययाच्चैकवचनं, 'संति' विद्यन्ते तीर्थानि ममेति गम्यते, उक्तं हि
___ "साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः ।
तीर्थं पुनाति कालेन, सद्यः साधुसमागमः ।।" किं च-भवत्प्रतीततीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता?, तथा चोक्तम्
"कुर्याद्वर्षसहस्रं त, अहन्यहनि मज्जनम्।
सागरेणापि कृत्स्नेन, वधको नैव शुद्धयति ।।" हृदशान्तितीर्थे एव विशिनष्टि-'अनाविले' मिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलत्वादेवात्मनो-जीवस्य प्रसन्ना-मानगप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन्, अथवा आप्ता-प्राणिनामिह परत्र च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन्नेवंविधे धर्महदे, ब्रह्माख्यशान्तितीर्थे च, यदा ब्रह्मशब्देन ब्रह्मचर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, 'जहिसि'त्ति यत्रास्मि स्नात इव स्नातः-अत्यन्तशुद्धिभवनाद्विमलो-भावमलरहितोऽत एवाती(व)विशुद्धो-गतकलङ्कः, 'सुसीतीभूओ'त्ति सुशीतीभूतो रागाद्युत्पत्तिविरहतः सुष्ठुशैत्यु प्राप्तः, पठ्यते च-'सुसीलभूओ'त्ति सुष्टु-शोभनं शीलं-समाधानं चारित्रं वा भूतः-प्राप्तः सुशीलभूतः प्रजहामि' प्रकर्षण त्यजामि दूषयन्ति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तं, अनेनैतदा- ममापि हुदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति, निगमयितुमाहमू. (४०६) एवं सिणाणं कुसलेण दिटुं, महासिणाणं इसिणं पसत्थं।
जहिं सि न्हाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति। वृ. 'एतदि'त्यनन्तरमुक्तं स्नानं' रजोहीनं 'कुशलैः' प्रागुक्तरूपैर्दष्टं-प्रेक्षितभिदमेव च महास्नानं, न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वाद, अत एव चेदं ऋषीणां प्रशस्तंप्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यम्, अस्यैव फलमाह-'जहिंसि'त्ति सुब्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org