________________
३१४
उत्तराध्ययन- मूलसूत्रम् - १-१२ / ४०१ कर्म्मतया शुचित्यक्तदेहो महान् जयः --कर्म्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञ श्रेष्ठेऽसौ महाजयस्तं क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते यतिरिति गम्यते, ततो भवन्तोऽप्येवमेव यजन्तामिति भावः, तिडवचनव्यत्ययेन वा 'जयइ'त्ति यजतां, कमित्याह- 'जन्नसेट्टं' ति प्राकृतत्वाच्छ्रेष्ठयज्ञं, श्रेष्ठवचनेन चैतद्यजन एव स्विष्टं कुशला वदन्ति, एष एव च कर्म्मप्राणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीदृग्गुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीदृग्गुण एव, तथा च तं यजमानस्य कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण च एवमाहुः
मू. (४०२ ) के ते जोई के व ते जोइठाणा ?, का ते सूया किं च ते कारिसंगं ? । एहा य ते कयरा संति भिक्खू!, कयरेण होमेण हुणासि जोई ? ॥
वृ. किं, अयमर्थ:- किंरूपं 'ते' तव 'ज्योति'रिति अग्निः 'के व ते जोइठाणे' त्ति किं वा ते-तव ज्योतिःस्थानं यत्र ज्योतिर्निधीयते, का श्रुवो ? - धृतादिप्रक्षेपिका दर्व्यः, 'किं च'त्ति किं वा करीपः - प्रतीतः स एवाङ्गम्-अग्न्युद्दीपनकारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्चसमिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' तव कतरा इति-का: ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्च दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो! कतरेण 'होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोषि- आहुतिभिः प्रीणयसि, किं ? - ज्योति : - अग्निम्, षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होम: तदुपकरणानि च पूर्वं निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ मुनिराह
मू. (४०३)
तवो जोई जीवो जोईठाणं, जोगा सुया सरीरं कारिसंगं । कम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्थं ॥
वृ. 'तपो' बाह्याभ्यन्तरभेदभिन्नं, 'ज्योति: ' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽवि भावेन्धनानि कर्माणि, जीवो - जन्तुर्ज्योतिः स्थानं, तपोज्योतिषस्तदाश्रयत्वात्, युज्यन्ते-सम्बन्ध्यन्ते स्वकर्म्मणेति योगाः - मनोवाक्कायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः, तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं करीषाङ्ग, तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तस्य, 'कर्म' उक्तरूपं एधास्तस्यैव तपसा भस्मीभावनयनात्, 'संजमजोग'त्ति संयमयोगा: संयमव्यापाराः शान्तिः सर्व्वप्राण्युपद्रवापहारित्वात्तेषां तथा 'होम' न्ति होमेन जुहोति तपोज्योतिरिति गम्यते, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थं 'ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भावः, अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ तदेतेन 'किं माहना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानं स्नानस्य च निषिद्धत्वाद्यज्ञस्वरूपं तैः पृष्टं कथितं च मुनिना ।।
,
इदानीं स्नानरूपं पिपृच्छिषव इदमाहुः
मू. (४०४ ) के ते हरए के य संतितित्थे ?, कहंसि न्हाओ व रयं जहासि ? | आयक्ख णे संजय जक्खपूइया, ! इच्छासु नाउं भवओ सगासे ॥
-
वृ.कस्ते-तव ‘हृदः' नदः ?, 'के च ते संतितित्थे 'त्ति किं च ते तव शान्त्यै- पापोपशमननिमित्तं तीर्थं - पुण्यक्षेत्रं शान्तितीर्थम्, अथवा 'कानि च' किंरूपाणि 'ते' तव ' सन्ति' विद्यन्ते 'तीर्थानि' संसारोदधितरणोपायभूतानि, लोकप्रसिद्धतीर्थानि हि त्वया निषिद्धानीति, तथा च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International