________________
अध्ययनं-१२,[नि. ३२७]
३१३ अयमाशय:-कुशला हि कर्ममलविलयात्मिकां तात्त्विकीमेवशुद्धिं मन्यन्ते, भवदभिमतयागनाने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमईहेतुतया प्रत्युत कर्मामलोपचयनिबन्धने एवेति नात: तत्सम्भव इति कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं ते वदेयुः?, तथा च वाचक:
"शौचमाध्यात्मिकं त्वक्त्वा, भावशुद्धयात्मकं शुभम्।
जलादिशौचं यत्रेष्टं, मूढ विस्मापकं हि तदि।" ति सूत्रार्थः । इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छु:मू. (३९९) कहं चरे भिक्खु ! वयं जयामो?, पावाइं कम्माइं पणुल्लयामो।
अक्खाहि णे संजय जक्खपूइआ, कहं सुज{ कुसला वयंति? ।। वृ.'कथं' केन प्रकारेण 'चरि'त्ति विभाषा कथमि लिं'च इति लिङिवचनव्यत्यये वचनव्यत्ययाच्चरेमहि-यागार्थं प्रवर्तेमहि, हे भिक्षो! मुने! वयमित्यात्मनिर्देशः, तथा 'यजामो' यागंकुर्मः, कथमिति योगः?, पापानि-अशुभानि कर्माणि पुरोपचिताविद्यारूपाणि 'पणुल्लयामो'त्ति प्रणुदामः प्रेरयामो, येनेति गम्यते, 'आख्याहि' कथय 'नः' अस्माकं संयतः' पापस्थानेभ्यः सम्यगुपरतः ‘यक्षपूजित' यक्षार्चित!, किमुक्तं भवति?-यो ह्यस्मद्विदितः कर्मप्रणोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कंदाचिदविशिष्टमेव यजनमुपदिशेदित्याशङ्कयाह-कथं' केन प्रकारेण 'स्विष्टं' शोभनं यजनं कुशला' उक्तरूपा ‘वदन्ति' प्रतिपादयन्ति, न तं 'सुदिटुं कुसला वयंति'त्ति कुशलमुखेनैव मुनिना दूषितमिति तैरपि तथैव पृष्टमिति सूत्रार्थः ।। मुनिराहमू. (४००) छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाना।
परिग्गहं इत्थिउ मान मायं, एयं परित्राय चरंति दंता ॥ वृ. षड् जीवकायान्-पृथिव्यादीन् 'असमारभमाना' अनुपमईयन्तः 'मोसं'ति मृषा अलीकभाषणं 'अदत्तं चे'त्यदत्तादानं चानासेवमाना:-अनाचरन्तः परिग्रहं-मूछा स्त्रियोयोषितो 'मान'त्ति मानम्-अहङ्कारं मायां-परवञ्चनात्मिकां तत्सहचारित्वात्कोपलोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि परिज्ञाय' ज्ञपरिज्ञया सर्वप्रकारंज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'चरेज्ज दन्त'त्ति वचनव्यत्ययाच्चरेयुर्यागे प्रवर्तेरन्, भवन्त इति गम्यते, पठन्ति च-'चरन्ति दंत'त्ति अत्र च यत एवं दान्ताश्चरन्त्यतो भवद्भिरप्येवं चरितव्यमिति भाव इति सूत्रार्थः ।।
प्रथमप्रश्नप्रतिवचनमुक्तं, शेषप्रश्नप्रतिवचनमाहमू.(४०१) सुसंवुडा पंचहिं संवरेहिं, इह जीवियं अनवकंखमानो।
वोसट्टकाओ सुइचत्तदेहो, महाजयं जयइ जनसिलु।। वृ. सुष्ठ संवृत्तः- स्थगितसमस्ताश्रवद्वारः सुसंवृतः, कैः ? पञ्चभिः-पञ्चसङ्घयैः संवरैःप्राणातिपातविरत्यादिव्रतैः 'इहे' त्यस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च 'जीवितं' स्तावादसंयमजीवितम् 'अनवकाङ्क्षन्' अनिच्छन्, यद्वा अपेर्गम्यमानत्वाज्जीवितमपिआयुरप्यास्तामन्यद्धनादि, अनवकाङ्क्षन्, यत्र हि व्रतबाधा तत्रासौ जीवितमपि न गणयति, अत एव व्युत्सृष्टो-विविधैरुपायैर्विशेषेण वा परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः-त्यक्तः काय:शरीरमनेनेति व्युत्सृष्टकायः, शुचिः-अकलुषव्रतः स चासौ त्यक्तदेहश्च-अत्यन्तनिष्प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org