________________
३१२
उत्तराध्ययन-मूलसूत्रम्-१-१२/३१५ त्याशङ्का निराकृता, वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिर्व'दुन्दुभयो' देवानकाः, उपलक्षणत्वाच्छेषातोद्यानि च, कैः? - 'सुरैः' देवैः, तथा तैरेव 'आकाशे' नभसि 'अहो' इति विस्मये, विस्मयनीयमिदं दानं, कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तमिति च 'घुष्टं' संशब्दितमिति सूत्रार्थः ।। तेऽपि ब्राह्मण विस्मतमनस इदमाहुःमू. (३९६) सक्खं खु दीसइ तवोविसेसो, न दीसई जाईविसेस कोई।
- सोवागपुत्तं हरिएससाहु, जस्सेरिसा इड्डि महानुभागा॥ वृ.'साक्षात्' प्रत्यक्षं 'खु'रिति निश्चितं अवधारणे वा ततः साक्षादेव 'दृश्यते' अवलोक्यते, काऽसौ ?-तपो-लोकप्रसिद्या व्रतमुपवासादिर्वा तस्य विशेषो-विशिष्टत्वं माहात्म्यमितियावत्तपोविशेषो, 'न' नैव दृश्यते 'जातिविशेषो' जातिमाहात्म्यलक्षणः कोऽपी'ति स्वल्पोऽपि, किमित्येवमत आह-यतः स्वपाकपुत्रः-चाण्डालसुतो हरिकेशश्चासौ मातङ्गत्वेन प्रसिद्धत्वात् साधुश्च पतित्वाद्धरिकेशसाधुः, पठ्यते च-'सोवागपुत्तं हरिएससाहु'न्ति, अत्र च पश्यतेति शेषः, कदाचिदन्य एव कश्चिदत आह-यस्येदृशी-दृश्यमानरूपा ऋद्धि:-देवसन्निधानात्मिका सम्पत् महानुभागा-सातिशयमाहात्म्या, जातिविशेपे हि साति सर्वोत्तमत्वाद्ब्राह्मणजातेस्तद्वतामस्माकमेव देवा वैयावृत्त्यं कुर्युरिति भाव इति सूत्रार्थः ॥
साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यनिदमाहम.(३९७)किं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा?।
जं मग्गहा बाहिरियं विसोहि, न तं सुदिट्ठ कुसला वयंति ।। वृ. 'कि'मिति क्षेपे, ततो न युक्तमिदं, यत् 'माहना' ब्राह्मणा ! 'ज्योतिः' अग्नि 'समारभमानाः' प्रस्तावद्यागकरणतः प्रवर्त्तमानाः, यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन 'सोहिं'ति शुद्धिं निर्मलतां 'बहिय'त्ति बाह्यां, कोऽर्थो ? -बाह्यहेतुका, या हि समारभमानैर्जलेन या शुद्धिर्मार्यते तत्र यागनाने एव तत्त्वतो हेतुत्वेनेष्टे, ते च भवदभिमते बाह्ये एवेति 'विमार्गयथ' विशेषेणान्वेषयथ, किमेवमुपदिश्यत इत्याह-यद्यूपं मार्गयथ बाह्यां-बाह्यहेतुकां विशुद्धि, न तत् सुदृष्ट-सुष्टुप्रेक्षितं 'कुशलाः तत्त्वविचारंप्रति निपुणा वदन्ति' प्रतिपादयन्तीति सूत्रार्थः
यथा चैतत् सुदृष्टं न भवति तथा स्वत एवाहमू. (३९६) कुसंच जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता।
पाणाइं भूयाइं विहेडयंता, भज्जोऽवि मंदा! पकरेह पावं॥ . वृ. 'कुशं च' दर्भं च 'यूपं' प्रतीतमेव तृणं च-वीरणादि काष्ठं-समिदादि तृणकाष्ठम् अग्नि-प्रतीतं, सर्वत्र परिगृह्णन्त इति शेषः, सायं' सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'पाय'ति प्रातश्च प्रभाते उदकं-जलं 'स्पृशन्तः' आचमनादिषु परामृशन्तः ‘पाणाइंति प्राणयोगात् प्राणिनो यद्वा प्रकर्षणानन्तीति-वसन्तीति प्राणाः-द्वीन्द्रियादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, भूयाई' इति भूतान्-तरून् 'भूताश्च तरवः स्मृता' इति वचनात्, पृथिव्यायेकेन्द्रियोपलक्षणं चैतत् 'विहेडयंति'त्ति विहेठयन्तो-विशेषेण विविधं वा बाधमानाः विनाशयन्त इत्यर्थः, किमित्याह-'भूयोऽपि' पुनरपि, न केवलं पुरा किन्तु विशुद्धिकालेऽपि जलानलादिजीवोपमद्दतो 'मन्दाः' जडाः 'प्रकुरुथ' प्रकर्षेणोपचिनुथ यूयं, 'किं तत् ?-पापम्-अशुभकर्मा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org