SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १२, [ नि. ३२७] ३११ वृ.अर्यत इत्यर्थो-ज्ञेयत्वात्सर्व्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्म्मविभागो रागद्वेषविपाको वा परिगृहयते, यद्वा अर्थ:-अभिधेयः सचार्थाच्छास्त्राणामेव तु चशब्दस्तद्गतानेकभेदसंसूचकः, धर्म:-सदाचारो दशविधो वा यतिधर्म्मस्तं च 'वियाणमाने 'त्ति विशेषेण विविधं वा जानन्तः-आगच्छन्तो यूयं 'नापि' नैव कुप्यथ-क्रोधं कुरुध्वं भूतिप्रज्ञा इति, भूर्तिर्मङ्गलं वृद्धी रक्षा चेती वृद्धाः, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, ततश्च: भूतिः - मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा - बुद्धिरस्येति भूतिप्रज्ञः, अतश्च 'तुब्भं तु' त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ चरणौ शरणमुपेम:समागता:- मिलिताः, केन सह ? - सर्व्वजनेन, वयमिति सूत्रार्थः ॥ किं चअच्चेमु ते महाभागा !, न ते किंचन नाच्चिमो । :-उपगच्छामः मू. (३९३ ) भुंजाहि सालिमं कूरं, नाणावंजसंजुयं ॥ वृ.‘अर्च्चयामः' पूज्यामस्ते - तव सम्बन्धि सर्व्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च, महाभाग ! अतिशयाचिन्त्यशक्तियुक्तत्वेनेति, नैव 'ते' तव किञ्चिदिति चरणरेण्वादिकमपि नार्च्चयामो-न पूजयामो, अपि तु सर्व्वमर्चयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीतिकृत्वा, अथवा अर्च्चयामस्ते इति सुब्व्यत्त्ययात्त्वाम्, अनेन स्वतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, तथा भुतो गृहीत्वेति गम्यते 'शालिम' न्ति शालिमयं, कोऽर्थः ? - शालिनिष्पन्नं ‘कूरम्' ओदनं नानाव्यञ्जनैः - अनेकप्रकारैर्दध्यादिभिः संयुतं- सम्मिश्रं नानाव्यञ्जनसंयुतं, न त्वेकमेवेति सूत्रार्थः ॥ अन्यच्च मू. ( ३९४ ) इमं च मे अत्थि पभूयमन्नं, तं भुंजसू अम्ह अनुग्गहट्ठा । बाढंति पडिच्छइ भत्तपानं, मासस्स ऊ पारणए महप्पा ॥ वृ. ‘इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' ममास्ति - विद्यते 'प्रभूतं' प्रचूरमन्नं- मण्डकखण्डस्वाद्यादि समस्तमपि भोजनं, यत्प्राक् पृथगोदनग्रहणं तत्तस्य सर्वान्नप्रधानत्वख्यापनार्थं, तद्भुङ्क्षास्माकमनुग्रहार्थं वयमनुगृहीता भवाम इति हेतोः, एवं च तेनोक्ते मुनिराह - 'बाढम् ' एवं कुर्म्स इतीत्येवं ब्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृह्णाति, भक्तपानमुक्तरूपं, 'मासस्स उत्ति मासादेव, यद्वा अन्त इत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यतेपर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणकं, भोजनमित्युक्तं भवति, तस्मिन्तन्निमित्तं, ‘निमित्तात्कर्म्मसंयोगे सप्तमिति' सप्तमी, माहात्म्येति प्राग्वत् इति सूत्रार्थः ॥ तदा च तत्र यदभूत्तदाह मू. (३९५) - तहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । पहया दुंदुहीओ सुरेहिं, आगासे अहोदानं च घुटुं ॥ - वृ. 'तहियं' ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्ध: - आमोदतस्तत्प्रधानमुदकं जलं गन्धोदकं तच्चा पुष्पाणि च कुसुमानि तेषां वर्षं वर्षणं गन्धोदकपुष्पवर्षं, सुरैरिति सम्बधात् कृतमिति गम्यते, दिव्या श्रेष्ठा यदिवा दिवि-गगने भवा दिव्या, 'तर्हि 'ति तस्मिन्नेव नान्यत्र, अनेन कथमियतामेकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरत्कल्याणान्तरं भविष्यती For Private & Personal Use Only Jain Education International - www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy