________________
३१०
उत्तराध्ययन-मूलसूत्रम्-१-१२/३८८ णादीनि तद्विषया चेष्टा कर्मचेष्टेह गृह्यते-'निब्भेरिय'त्ति प्रसारितान्यक्षीणि-लोचनानि येषां ते तथोक्तास्तान्, रुधिरं वमद्-उद्गिरत् 'उ8मुह'त्ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्रान्, अत एव निर्गतानि-नि:सृतानि जिह्वाश्च प्रतीता नेत्राणि च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, मू. ( ३८९) ते पासिया खंडिय कट्ठभूए, विमणो विसनो अह माहणो सो।
इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ! ।। वृ.'तानि'त्युक्तरूपान् ‘दृष्ट्वा' अवलोक्य खंडिय'त्ति आर्षत्वात्सुपो लुकि खण्डिकान्छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमा विगतमिव विगतं मनः-चित्तमस्येति विमनाः, विषण्णः-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथे'ति दर्शनानन्तरं 'ब्राह्मणो' द्विजातिः 'स' इति सोमदेवनामा 'ऋषि' तमेव हरिकेशबलनामानं मुनि ‘प्रसादयति' प्रसत्ति ग्राहयति, सह भार्यया-पत्न्या तयैव भद्राभिधानया वर्त्तते इति सभार्याकः, कथमित्याह-हीलां च-अवज्ञां निन्दां च-दोषोद्घट्टनं 'खमाह'त्ति क्षमस्व सहस्व भंतेति' सूत्रद्वयार्थः ।।
पुनः स प्रसादनामेवाहमू. (३९०) बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते !
महप्पसाया इसिणो हवंति, न हमनी कोवपरा हवंति।। वृ. बालैः-शिशुभिर्मूढैः-कषायमोहनीयोदयाद्विचित्तता गतैः अत एव चाज्ञैः-हिताहितविवेकविकलैः 'यदि' त्युपप्रदर्शने 'हीलिताः' अवज्ञाताः 'तस्स'त्ति सूत्रत्वात् तत् 'खमाह'त्ति क्षमध्वं भदन्त !, अनेनैतदाह-यतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ?, यतोऽनुकम्पनीया एवामी, उक्तं च केनचिद्-"आत्मद्रुहममर्यादं, मूढमुज्झितसत्पथम्। सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम्।" किंच-महान् प्रसाद:-चित्तप्रसत्तिरूपो येषां ते महाप्रसादा ऋषयः-साधवो भवन्ति, व्यतिरेकमाह-'नहु'त्ति न पुनर्मुनयो-यतयः 'कोपपराः' क्रोधवशगा भवन्ति, भिन्नवाक्यत्वाच्च मुनिग्रहणमदुष्टमेवेति सूत्रार्थः ।। मुनिराहमू. (३९१) पुब्विं च इण्हि च अनागयं च, मनप्पओसो न मे अत्थि कोई।
जक्खा हु वेयावडियं करिति, तम्हा हु एए निहया कुमारा। वृ. 'पुव्वि च'त्ति पूर्वं च पुरा इदानीं च-अस्मिन् काले 'अनागय चे'ति अनागते च भविष्यकाले मनःप्रद्वेष:-चित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणत्वादासीद्भविष्यति च, 'कोऽपि'त्यल्पोऽपि, इह च भाविनि प्रमानाभावेऽपि 'अनागतं प्रत्याचक्ष' इति वचनादनागतस्यापि तस्य निषिद्धत्वाच्छ्रुतज्ञानबलतः कालत्रयपरिज्ञानसम्भवाच्चैवमभिधानं, पठन्ति च 'पुव्वि च पच्छा व तहेव मज्झे' तत्र च पूर्वंवा पश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव, न च कुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, 'यक्षा' देवविशेषा 'हु'रिति यस्माद्वैयावृत्त्यं-प्रत्यनीकप्रतिघातरूपं 'कुर्वन्ति' विदधति, 'तम्ह'त्ति तस्मात् हुरवधारणे ततस्तस्मादेव हेतोरेते-पुरोवर्तिनो नितरां हता:-ताडिता निहताः कुमाराः, न तु मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ।। सम्प्रति तद्गुणा कृष्टचेतस उपाध्यायप्रमुखा इदमाहु:मू.(३९२) अत्थ च धम्मं च वियाणमाना, तुन्भे नवि कुप्पह भूइपन्ना।
तुभंतु पाए सरणं उवेमो, समागया सव्वजनेन अम्हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org