________________
उत्तराध्ययन-मूलसूत्रम्-१-१२/४०६ त्ययायेन स्नाता विमला विशुद्धा इति च प्राग्वत् महर्षयो-महामुनय उत्तमं स्थानं-मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ।। इति परिसमाप्तौ, ब्रवीति पूर्ववद्, गतोऽनुगमः, सम्प्रति नयास्ते च प्राग्वदेव ।।
अध्ययनं - १२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे द्वादशअध्ययनस्य भद्रबाहुसूरिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचित टीका परिसमाप्ता
(अध्ययनं - १३- चित्रसंभूतिय ) वृ.व्याख्यातं हरिकेशीयं नाम द्वादशमध्ययनम्, अधुना त्रयोदशममारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने श्रुतवत्तपस्यपि यत्नो विधेय इति ख्यापयितुं तपःसमद्धिरभिहिता, इह तु तत्प्राप्तावपि निदानं परिहर्तव्यमिति दर्शयितुं यथा तत् महापायहेतुस्तथा चित्रसंभूतोदाहरणेन निदर्श्यत इति, जनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे चित्रसंभूतीयमिति नाम, अतश्चित्रसंभूतनिक्षेपाभिधानायाह नियुक्तिकृत्नि.[३३०] चित्ते संभूअंमि अ निक्खेवो चउक्कओ दुहा दव्वे।
आगमनोआगमओ नोआगमओ असो तिविहो। नि.[३३१] जाणगसरीरभविए तव्वतिरित्ते य सो पुनो तिविहो।
एगभविअ बद्धाऊ अभिमुहओ नामगोए य॥ चित्तेसंभूआउं वेअंतो भावओ अ नायव्यो।
तत्तो समुट्ठिअमिणं अज्झयणं चित्तसंभूयं ।। वृ.गाथात्रयं स्पष्टमेव, नवरं 'चित्तेसंभूयाउं'ति एकारोऽलाक्षणिकः, ततः समुत्थित मिति ताभ्यां-चित्रसम्भू ताभ्यामभिधेयभूतामागतं, 'तेसुं'ति च पाटे तयोः 'समुत्थित मिति भवं चित्रसंभूतीयं, 'वृद्धच्छः' इति छप्रत्यये वृद्धसञ्ज्ञा तु ‘वा नामधेयं यस्ये'ति वचनात् ॥
सम्प्रति काविमौ चित्रसंभूतौ ? केन चानयोरत्राधिकारः? इत्याशङ्कयाहनि. [ ३३३] सागए चंडवडिंगसयस्स पुत्तो अ आसि मुनिचंदो।
सोऽवि असागरचंदस्स अंतिए पव्वए समणो।। नि.[३३४] तण्हाछुहाकिलंतं समणं दट्टण अडविनीहुत्तं ।
पडिलाहणा य बोही पत्ता गोवालपुत्तेहिं ।। नि.[३३५] तत्तो दुन्नि दुगछं काउंदासा दसन्नि आयाया।
दुन्नि अ उसुआरपुरे अहिगारो बंभदत्तेणं ।। वृ.गाथात्रयमस्याप्यक्षरार्थः स्पष्ट एव, नवरं पव्वए समणो'त्ति प्राव्राजीत् समानं मनोऽस्येति समना:- सर्वत्रारक्तद्विष्टचित्तः सन्, यद्वा श्राम्यतीति श्रमणः-तपस्वी सन्, निश्चयनयापेक्षं चैतत्, "नेरइए नेरइएसु उववज्जति" इत्यादिवत्, तथा अडविनीहुत्तं'ति अटवीनिःसृतम्, अरण्यानिष्क्रान्तमित्यर्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्-अस्ति कोसलालङ्कारभूतं साकेतं नाम नगरं, तत्र चाभूदधिगतजीवाजीवादितत्त्वश्चन्द्रावतंसको नाम राजा, तस्य च धारिणी देवी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org