Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 317
________________ ३१४ उत्तराध्ययन- मूलसूत्रम् - १-१२ / ४०१ कर्म्मतया शुचित्यक्तदेहो महान् जयः --कर्म्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञ श्रेष्ठेऽसौ महाजयस्तं क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते यतिरिति गम्यते, ततो भवन्तोऽप्येवमेव यजन्तामिति भावः, तिडवचनव्यत्ययेन वा 'जयइ'त्ति यजतां, कमित्याह- 'जन्नसेट्टं' ति प्राकृतत्वाच्छ्रेष्ठयज्ञं, श्रेष्ठवचनेन चैतद्यजन एव स्विष्टं कुशला वदन्ति, एष एव च कर्म्मप्राणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीदृग्गुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीदृग्गुण एव, तथा च तं यजमानस्य कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण च एवमाहुः मू. (४०२ ) के ते जोई के व ते जोइठाणा ?, का ते सूया किं च ते कारिसंगं ? । एहा य ते कयरा संति भिक्खू!, कयरेण होमेण हुणासि जोई ? ॥ वृ. किं, अयमर्थ:- किंरूपं 'ते' तव 'ज्योति'रिति अग्निः 'के व ते जोइठाणे' त्ति किं वा ते-तव ज्योतिःस्थानं यत्र ज्योतिर्निधीयते, का श्रुवो ? - धृतादिप्रक्षेपिका दर्व्यः, 'किं च'त्ति किं वा करीपः - प्रतीतः स एवाङ्गम्-अग्न्युद्दीपनकारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्चसमिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' तव कतरा इति-का: ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्च दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो! कतरेण 'होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोषि- आहुतिभिः प्रीणयसि, किं ? - ज्योति : - अग्निम्, षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होम: तदुपकरणानि च पूर्वं निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ मुनिराह मू. (४०३) तवो जोई जीवो जोईठाणं, जोगा सुया सरीरं कारिसंगं । कम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्थं ॥ वृ. 'तपो' बाह्याभ्यन्तरभेदभिन्नं, 'ज्योति: ' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽवि भावेन्धनानि कर्माणि, जीवो - जन्तुर्ज्योतिः स्थानं, तपोज्योतिषस्तदाश्रयत्वात्, युज्यन्ते-सम्बन्ध्यन्ते स्वकर्म्मणेति योगाः - मनोवाक्कायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः, तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं करीषाङ्ग, तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तस्य, 'कर्म' उक्तरूपं एधास्तस्यैव तपसा भस्मीभावनयनात्, 'संजमजोग'त्ति संयमयोगा: संयमव्यापाराः शान्तिः सर्व्वप्राण्युपद्रवापहारित्वात्तेषां तथा 'होम' न्ति होमेन जुहोति तपोज्योतिरिति गम्यते, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थं 'ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भावः, अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ तदेतेन 'किं माहना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानं स्नानस्य च निषिद्धत्वाद्यज्ञस्वरूपं तैः पृष्टं कथितं च मुनिना ।। , इदानीं स्नानरूपं पिपृच्छिषव इदमाहुः मू. (४०४ ) के ते हरए के य संतितित्थे ?, कहंसि न्हाओ व रयं जहासि ? | आयक्ख णे संजय जक्खपूइया, ! इच्छासु नाउं भवओ सगासे ॥ - वृ.कस्ते-तव ‘हृदः' नदः ?, 'के च ते संतितित्थे 'त्ति किं च ते तव शान्त्यै- पापोपशमननिमित्तं तीर्थं - पुण्यक्षेत्रं शान्तितीर्थम्, अथवा 'कानि च' किंरूपाणि 'ते' तव ' सन्ति' विद्यन्ते 'तीर्थानि' संसारोदधितरणोपायभूतानि, लोकप्रसिद्धतीर्थानि हि त्वया निषिद्धानीति, तथा च For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388