Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - १२, [ नि. ३२७]
मू. ( ३८६ ) आसीविसो उग्गतवो महेसी, घोरव्वओ, घोरपरक्कमो य । अगनिं व पक्खंद पयंगसेना, जे भिक्खुं भत्तकाले वहेह ॥
३०९
वृ. आस्यो - दंष्ट्रास्तासु विषमस्येत्यासीविषः - आसीविबलब्धिमान्, शापानुग्रहसमर्थ इत्यर्थः, यद्वा आसीविष इव आसीविषः, यथा हि तमत्यन्तमवजानानो मृत्युमेवाप्नोति, एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो ?, यतः - उग्रतपाः प्राग्वत्, 'महेसि' त्ति महान् - बृहन् शेषस्वर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलषतीति महदेषी महर्षिर्वा, घोरव्रतो घोरपराक्रमश्च पूर्ववत, यतश्चैवमत: 'अगणिव 'त्ति अग्नि- ज्वलनं, वाशब्द इवार्थो भिन्नक्रमश्च, तत: 'पक्खंद' त्ति प्रस्तकन्दथेव - आक्रामथेव, केव ? - 'पतंगसेन 'त्ति उपमार्थस्य गम्यमानत्वात्पतङ्गानां - शलभानां सेनेव सेना - महती सन्ततिः पतङ्गसेना तद्वत्, यथा हि असौ तत्र निपतन्त्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षं भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छत किन्तु तत्रापि 'वधह' त्ति विध्यथ-ताडयथ, अयमाशयो- यतोऽयमासीविषादिविशेषणान्वितोमुनिरतो गिरिनखखननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ । मू. ( ३८७ ) सीसेण एयं सरणं उवेह, समागया सव्वजनेन तुम्हे ।
जइ इच्छह जीवियं वा धनं वा, लोगंपि एसो कुविओ डहिज्जा ॥ वृ.अथ स्वकृत्योपदेशमाह- 'शीर्षेण' शिरसा 'एनं' मुनिं ' शरणार्थं ' रक्षणार्थमाश्रयमुपेतअभ्युपगच्छत, किमुक्तं भवति ? - शिरः प्रणामपूर्व्वकमयमेवास्माकं शरणमिति प्रपद्यध्वं, ‘समागताः' सम्मिलिताः 'सर्व्वजनेन' समस्तलोकेन, सहार्थे तृतीया, 'यूयं' भवन्तो, यदीच्छतअभिलषत 'जीवितं' प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छरणमस्ति, किमित्येवमत आह-'लोकमपि' भुवनमप्येष कुपितः क्रुद्धो 'दहेद्' भस्मात्कृर्यात्, तथा च वाचकः
"कल्पान्तोग्रानलवत्प्रज्वलनं तेजसैकतस्तेषाम् ॥"
"न तत् दूरं यदश्वेषु, यवाग्नौ यच्च मारुते । विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये ॥ "
इति सूत्रत्रयार्थः ॥ सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा च यदचेष्टत तदाहमू. ( ३८८ ) अवहेडियपिट्ठिसउत्तमंगे, पसारियाबाहुअकम्मचिट्टे । निब्भेरियच्छे रुहिरं वमंते, उड्डूंमुहे निग्गयजीहनित्ते ।।
वृ. ‘अवे'त्यधो ‘हेडिय'त्ति हेठितानि - बाधितानि, किमुक्तं भवति ? - अधोनामितानि, पठन्ति च ' आवडिए 'त्ति तत्र सूत्रत्वादवको टितानि - अधस्तादामोटितानि 'पट्ठि' त्ति पृष्ठं यावत् तदभिमुखं वा सन्ति-शोभनान्युत्माङ्गानी येषां ते अवहेठितपृष्ठसदेत्तमाङ्गः अवकोटितपृष्ठसदुत्तमाङ्गो वा, प्राग्वन्मध्यपदलोपी समसास्तान्, 'पसारियाबाहुअकम्मचिट्ठ' त्ति प्रसारिताविरलीकृता बाहवो - भुजा यैर्येषां वा ते तथा ततस्ते च ते अकर्मचेष्टाश्च-अविद्यमानकर्म्महेतुव्यापारतया प्रसारितबाह्यकर्म्मचेष्टास्तान्, यद्वा क्रियन्त इति कर्म्मारणि- अग्नौ समित्प्रक्षेप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
तथा लौकिका अप्याहु:
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388