Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 306
________________ अध्ययनं-१२,[ नि. ३२७ ] ३०३ संयतः-असद्वयापारेभ्य उपरतः, अत एव च ब्रह्मचारी-ब्रहचर्यवान्, तथा विरतो निवृत्तः, कुतो?- धनं च पचनं च परिग्रहश्च धनपचनपरिग्रहमिति समाहार: तस्मात्, तत्र धनं चतुष्पदादि पचनमाहारनिष्पादनं परिग्रहो द्रव्यादिषु मूर्छा, अत एव च परस्मै प्रवृत्तंपरैः स्वार्थं निष्पादितत्वेन परप्रवृत्तं तस्य, तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं साधितस्येति भावः, 'भिक्षाकाले' भिक्षाप्रस्तावे, कदाचिदकालोऽयं ब्रूयादित्येवमुक्तं, 'अन्नस्य' अशनस्य 'अट्ठ'त्ति सूत्रत्वादाय, भोजनार्थमिति भावः, 'इह' अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतर त्वं किमिहागतोऽसि?, तत्प्रतिवचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः-नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आहमू. (३६९) वियरिज्जइ स्वज्जइ शुज्जइ य, अन्नं पशूयं भवयाणमेयं । जाणाहि मे जायणजीविनुत्ति, सेसावसेसंलहओ तवस्सी। वृ. 'वितीर्यते' दीयते दीनानाथादिभ्यः खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अद्यत इत्यन्नं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्यादत आह-'प्रभूतं' बहु, प्रभूतमपि परकीयमेव स्यात्, अत आह-'भवतां' युष्माकमेव सम्बन्धि 'एतदिति प्रत्यक्षं, तथा च 'जानीत' अवगच्छत 'मे'त्ति सूत्रत्वानां 'जायणजीविनो'त्ति याचनेन जीवन-प्राणधारणमस्येति याचन जीवनं, आर्षत्वादिकारः, पठ्यते च-'जायणजीवणो'त्ति, इतिशब्दः स्वरूपपरामर्शकः, तत एवंस्वरूपं, यतश्चैवमतो मह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्टमेवासौ याचत इति तेषामाशयः स्यादत आह, अथवा जानीत मां याचनजीविनं-याचनेन जीवनशीलं, द्वितीयार्थे षष्ठी, पाठान्तरे तु प्रथमा, 'इती'त्यस्माद्धेता:, किमित्याह-शेषावशेषम्-उद्धरितस्याप्युद्धरितम्, अन्तप्रान्तमित्यर्थः, लभतां प्राप्नोतु, तपस्वी-यतिर्वराको वा भवदभिप्रायेण, अनेनात्मानं निर्शितीति सूत्रद्वयार्थः ।। एवं यक्षेणोक्ते यज्ञवाटवासिनः प्राहुःमू. (३७०) उवक्खडं भोयण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं। नऊ वयं एरिसमनपाणं, दाहामु तुझं किमिहं ठिओऽसि?॥ वृ. 'उपस्कृतं' लवणवेसवारादिसंस्कृतं 'भोयण'त्ति भोजनं माहनानां-ब्राह्मणानां आत्मनोऽर्थः आत्मार्थस्तस्मिन् भवमात्माथिकं, ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्मस्मै देयं, किमिति?, यतः सिद्ध-निष्पन्न ‘इह' अस्मिन् यज्ञे एक: पक्षो-ब्राह्मणलक्षणो यस्य तदेकपक्षं, किमुक्तं भवति? -यदस्मिन्नुपस्क्रियते न तद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, विशेषतस्तु शूद्राय, यत उक्तम् __ "न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविः कृतम्। न चास्योपदिशेद् धर्म, न चास्य व्रतमादिशेत् ॥" यतश्चैवमतो 'नतु' नैव वयभीदृशमुक्तरूपं अन्नंच-ओदानादि पानंच -द्राक्षापानाद्यन्नपानं 'दाहामो'त्ति दास्यामः 'तुझं तितुभ्यं, किमिह स्थितोऽसि?, नैवेहावस्थितावपि तव किञ्चिदिति भाव इति सूत्रार्थः ।। यक्ष आहमू. (३७१) थलेसु बीयाई वयंति कासया, तहेव निन्नेसु य आससाए। एयाइ सद्धाइ दलाह मज्झं, आराहए पुनमिणं खु खित्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388