Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 307
________________ ३०४ उत्तराध्ययन-मूलसूत्रम्-१-१२/३७१ __ वृ. 'स्थलेषु' जलावस्थितिविरहितेषूच्चभूभागेषु 'बीजानि' गोधूमशाल्यादीनि ‘वपन्ति' रोपयन्ति कासग'त्ति कर्षकाः कृषीवलाः, तथैव' यथोच्चस्थलेष्वेवमेव 'निम्नेषु च' नीचभूभागेषु च 'आससाए'त्ति आशंसया-यद्यत्यन्तप्रवर्षणां भावि तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया, एतयेवैतया-एतदुपमया, कोऽर्थः ? -उक्तरूपकर्षकाशंसातुल्यया 'श्रद्धया' वाञ्छया 'दलाह'त्ति ददध्वं मह्यं, किमुक्तं भवति? -यद्यपि भवतां निम्नोपमत्वबुद्धिरात्मनि मयितु स्थलतुल्यताधी: तथापि मह्यमपि दातुमुचितम्, अथ स्याद्-एवं दत्तेऽपि न फलावाप्तिरित्याह-'आराहए पुनमिणं खु'त्ति खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वादाराधयेदेव-समन्तात्साधयेदेव, नात्रान्यथाभावः, पुण्यं' शुभमिदं-परिदृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यशस्यप्ररोहहेतुतया, आत्मानमेव पात्रभूतमेवमाह, पठ्यते च-'आराहगा होहिम पुन्नखेत्त'न्ति आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेन दानफलमाह, कुत एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इति गम्यते, इति सूत्रार्थः ।। यक्षवचनानन्तरंत इदमाहुःमू. (३७२) खित्ताणी अम्हं विइयाणि लोए, जहिं पकिन्ना विरुहंति पुन्ना। जे माहणा जाइविज्जोववेया, ताइंतु खित्ताइं सुपेसलाई। वृ. क्षेत्राणी ति क्षेत्रोपमानि प्रात्राण्यस्माकं 'विदितानि' ज्ञातानि, वर्तन्त इति गम्यते, 'लोके' जगति जहिं ति वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानीव प्रकीर्णानि-दत्तान्यशनादीनि 'विरोहन्ति' जन्मान्तरोपसथानतः प्रादुर्भवन्ति पूर्णानि' समस्तानि, न तु तथाविधदोषसद्भावत: कानिचिदेव, स्यादेतद्-अहमपि तन्मध्यवत्र्येवेत्याशङ्कयाह-ये 'ब्राह्मणाः' द्विजाः, तेऽपि न नामत एव, किन्तु जातिश्च-ब्राह्मणजातिरूपा विद्या च-चतुर्दशविद्यास्थानात्मिका ताभ्याम् 'उववेय'त्ति उपेता-अन्विता जातिविद्योपेताः, ताइंतु'त्ति तान्येव क्षेत्राणि 'सुपेसलाणि'त्ति सुपेशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानि-शोभनानि प्रीतिकराणि वा, न तु भवादृशानि शूद्रातीनि, शूद्रजातित्वादेव वेदादिविद्याबहिष्कृतानीति, यत उक्तम् "सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे। सहस्रगुणमाचार्ये, अनन्तं वेदपारगे।" इति सूत्रार्थ: यक्ष उवाचमू. (३७३) कोहो य मानो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च। ते माहणा जाइविज्जाविहीणा, ताईतु खित्ताई सुपावयाई॥ वृ. 'क्रोधश्च' रोषः 'मानश्च' गर्वः, चशब्दान्मायालोभौ च, 'वधश्च' प्राणिघातो 'येषा'मिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसं'ति मृषा-अलीकभाषणं 'अदत्त'ति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा सत्येतिवत् अदत्तादानमुक्तं, चशब्दान्मैथुनं, परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याभ्यां विहीनारहिता जातिविद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था, यत उक्तम् _ "एकवर्णमिदं सर्वं, पूर्वमासीद्युधिष्ठिर!।। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम्॥१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388