Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-११,[नि.३१७]
२९५ तपमानि सकलातिशयनिधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यताऽस्येति सूत्रार्थः ।। अन्य च्चमू.( ३५०) जहा से सहस्सक्खे, वज्जपाणी पुरंदरे।
सक्के देवाहिवई, एवं हवइ बहुस्सए । वृ. यथा स सहस्रमक्षीण्यस्येति सहस्राक्ष:- सहस्रलोचनः, अत्र च सम्प्रदायः-'सहस्सक्खत्ति पंच मंतिसया देवाणं तस्स, तेसिं सहस्सं अच्छीणं, तेसिं नीईए विक्कमति, अहवा जं सहस्सेणं अच्छीणं दीसति तं सो दोहिं अच्छीहिं अब्भहियगरागं पेच्छती'ति । वज्रवज्राभिधानमायुधं पाणावस्येति वज्रपाणिः, लोकोकत्वा च पूर्दारणात् पुरन्दरः, क ईदृगित्याहशको 'देवाधिपतिः' देवानां स्वामी, एवं भवति बहुश्रुतः, सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानतुल्येन लोचनसहस्रेणेव जानीते, यश्चैवं तस्यैवविधत्वोपलक्षणं, वज्रमपि लक्षणं पाणौ सम्भवतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्ठानतो दारयतीवदारयतीति पुरन्दरः, शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह-"देवावि तं नमंसंति, जस्स धम्मे सया मणो"त्ति सूत्रार्थः ।। अपि चमू.(३५१) जहा से तिमिरविद्धंसे, उत्तिटुंति दिवागरे।
जलंते इव तेएणं, एवं भवइ बहुस्सुए। वृ. यथा स: तिमिरम्-अन्धकारं विध्वंसयति-अपनयति तिमिरविध्वंसः, 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः' सूर्यः, सहिऊर्ध्वं नभोभागमाक्रामन्नतितेजस्वितां भजते अवतरंस्तं न तथेत्येवं विशिष्यते, यद्वा उत्थानं-प्रथममुद्गमनं तत्र चायंन तीव्र इति तीव्रत्माभावख्यापकमेतत्, अन्यदा हि तीव्रोऽयमिति न सम्यग् दृष्टान्तः स्यात्, 'ज्वलन्निव' ज्वालां मुञ्चन्निव तेजसा' महसा, एवं भवति बहुश्रुतः, सोऽपि ह्यज्ञानरूपतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उपसर्पस्तपस्तेजसा च ज्वलन्निव भवतीति सूत्रार्थः ॥ अन्यच्चमू. ( ३५२) जहा से उडुवई चंदे, नक्खत्तपरिवारिए।
पडिपुने पुन्निमासीए, एवं भवइ बहुस्सए। वृ.यथा सः उडूनां-नक्षत्राणां पतिः-प्रभुः उड्डपतिः, क इत्याह-'चन्द्रः' शशी, 'नक्षत्रैः' अश्विन्यादिभिः, उपलक्षणत्वाद्ग्रहैस्ताराभिश्च परिवार:-परिकरः सञ्जातोऽस्येति परिवारितः नक्षत्रपरिवारितः 'प्रतिपूर्णः' समस्तकलोपेतः, स चेदृक् कदा भवति? अत आह-पौर्णमास्याम्। इह च चन्द्र इत्युक्ते मा भून्नामचन्द्रादावपि सम्प्रत्ययः इत्युडुपतिग्रहणं, उडुपतिरपिच कश्चिदेकाक्येव भवति मृगपतिवत् अत उक्तं नक्षत्रपरिवारितः, सोऽप्यपरिपूर्णोऽपि द्वितीयादिषु सम्भवतीति परिपूर्णः पौर्णमास्यामित्युक्तं, एवं भवति बहुश्रुतः, असावपि हि नक्षत्राणामिवानेकसाधूनामधिपतिः तथा तत्परिवारितः सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ।। मू.(३५३) जहा से सामाइयाणं, कोट्ठागारे सुरक्खिए।
नानाधनपडिप्पुन्ने, एवं हवइ बहुस्सुए। वृ. यथा स 'सामाइयाणं'ति समाजः-समूहस्तं समवयन्ति सामाजिका:-समूहवृत्तयो लोकास्तेषां, पठन्ति च-'सामाइयंगाणं'ति तत्र च श्यामा-अतसी तदादीनि च तानि अङ्गानी च उपभोगाङ्गतया श्यामाद्यङ्गानि धान्यानि तेषां कोट्ठागारे'त्ति कोष्ठा-धान्यपल्यास्तेषामगारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388