Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 294
________________ २९१ अध्ययनं-११,[नि. ३१७] मू. (३३७) अह पन्नरसहि ठाणेहिं, सुविनीएत्ति वुच्चइ। नीयावित्ती अचवले, अमाई अकुऊहले। ७. अथ पञ्चदशभिः स्थानैः सुष्ठ-शोभनो विनीतो-विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह-'नियावित्ति'त्ति नीचम्-अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्तत इत्येवंशीलो नीचवर्ती-गुरुषु न्यग्वृत्तिमान्, यथाऽऽह __ "नीयं सेज्जं गईं ठाणं, नियं च आसनानि य। नियं च पाय वंदेज्जा, नीयं कुज्जा य अंजलिं॥" । 'अचपलः' नाऽऽरब्धकार्यं प्रत्यस्थिरः, अथवाऽचपलो-गतिस्थानभाषाभावभेदतश्चतुर्धा, तत्र-गतिचपल:-द्रतचारी, स्थानचपल:-तिष्ठन्नपि चलनेवास्ते हस्तादिभिः भाषाचपल:असदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्धाः, तत्र असद्-अविद्यमानमसभ्यं - खरपुरुषादि असीमक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः अतीते कार्ये यो वक्ति-यदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यद्, भावचपलः सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति, 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः, अकुतूहल:' न कुहुकेन्द्रजालाद्यवलोकनपरः, म.(३३८) अप्पं च अहिक्खिवति, पबंधं च न कुव्वइ। मित्तिज्जमानो भजति, सुयं लद्धं न मज्जति॥ वृ. अल्पंच' इति स्तोकमेव अधिक्षिपति' तिरस्कृरुते, किमुक्तं भवति?-नाधिक्षिपत्येव तावदसौ कञ्चन, अधिक्षिपन् वा कञ्चन कङ्कटुकरूपं धर्म प्रति प्रेरयन्नल्पमेवाधिक्षिपति, अभाववचनो वाऽल्पशब्दः, तथा च वृद्धा:-"अल्पशब्दो हि स्तोकेऽभावे च", ततो नैव कञ्चनाधिक्षिपति, प्रबन्धं' चोक्तरूपं न करोति, मित्रीय्यमानः' उक्तन्यायेन भजते' मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो वा, श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानतः सुतरामवनमति, मू. (३३९) न य पावपरिक्खेवी, न य मित्तेसु कुप्पति। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ॥ वृ. 'न च' नैव पापपरिक्षेपी' उक्तरूपः, न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति, अप्रियस्यापि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति, "एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । न त्वेदकदोषजनितो येषां कोपः स च कृतघ्नः ।।" मू.(३४०) कलहडमरवज्जए, बुद्धे (अ) अभिआइए। हिरिमं पडिसंलीणो, सुविनीएत्ति वुच्चइ॥ । वृ.इति, कलहश्च-वाचिको विग्रहः डमरंच-प्राणिघातादिभिस्तद्वर्जको, 'बुद्धो' बुद्धिमान्, एतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसङ्खयाविरोधः, 'अभिजातिए'त्ति अभिजाति:-कुलीनता ता गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेत्यभिजातिगः, ही:-लज्जा सा विद्यतेऽस्य हीमान्, कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते, 'प्रतिसंलीन:' गुरुसकाशेऽन्यत्र वा कार्य For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388