Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 285
________________ २८२ उत्तराध्ययन-मूलसूत्रम्-१-१०/३१० इह कामुगुणेहिं मुच्छिया, समयं ॥ ७. अन्यच्च-'धर्म' प्रक्रमात् सर्वज्ञप्रणीतम् 'अपिः' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन-शरीरेण, उपलक्षणत्वान्मनसा वाचा च, 'स्पर्शका' अनुष्ठातारः, कारणमाह-'इह' अस्मिन् जगति कामगुणेषु' शब्दादिषु 'मूच्छिता' मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति शेषः, प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गः प्राणीनां, यत उक्तम् "प्रायेण हि यदपथ्यं तदेव चातुरजनप्रियं भवति । विषयातुरस्य जगतस्तथाऽनुकूल: प्रिया विपयाः ।।" पाठान्तरतः कामगुणैर्मूच्छिता इव मूच्छिताः, विलुप्तधर्मविपयचैतन्यत्वात्, यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ।। अन्यच्च सति शरीरे तत्सामर्थ्य च सति धर्मस्पर्शनेति तदनित्यताऽभिधानद्वारेणाप्रमादोदोपदेशमाहमू. (३११) परिजूरइ ते सरीरयं, केसा पंडुरगा (य) भवंति ते। से सोयबले य हायइ, समयं०॥ मू. (३१२) परि चक्खुबले० ॥ मू. (३१३) घाणबले०॥ मू.(३१४) रसनबले०॥ मू. (३१५) फासबले०॥ मू.(३१६) सव्वबले०॥ वृ. परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानातयाऽनुकम्पनीयमिति शरीरकं, यद्वा 'परिजूरइ'त्ति 'निन्देर्जूर' इति प्राकृतलक्षणतात् परिनिन्दतीवाऽऽत्मानमिति गम्यते, यथा-धिग्मां कीदृशं जातमिति, किमिति?-यत: 'केशाः' शिरसिजाः, उपलक्षणत्वात् लोमानि च पाण्डुरा एव पाण्डुरका भवन्ति, पूर्वं जननयनहारिणोऽन्यन्तकृष्णाः सम्प्रति शुक्लतां भजन्ते 'ते' तव, पुनस्तेशब्दोपादानं भित्रवाक्यत्वात् उपदेशाधिकारत्वाच्चादुष्टम्, एवमुत्तरत्रापि, तथा 'से' इति तत् यत् पूर्वमासित् श्रोत्रयोः-कर्णयोर्बलंदूरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं, 'चः' समुच्चये, हीयते' जरातः क्षयमुपैति, यद्वा-शरीरजीर्णताऽवस्थाभाव्येतद्वयमपि योज्यं, यथा-परिजीर्यते शरीरकं तथा च सति केशाः पाण्डुरका भवन्ति 'से' इत्यथ श्रोत्रबलं हीयते यत: ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात् समयमपि गौतम ! मा प्रमादीः । एवं सूत्रपञ्चकमपि नेयं । नवरमिह प्रथमतः श्रोत्रोपादानं प्रधानत्वात्, प्रधानत्वं च तस्मिन् सति शेषेन्द्रियाणामवश्यं भावात् पटुतरक्षयोपशमजत्वाच्च, तथोपदेशाधिकारादुपदेशस्य च श्रोतग्राह्यत्वात् । तथा च 'सर्वबलं'मिति सर्वेषा-करचरणाद्यवयवानां स्वस्वव्यापारसामर्थ्य, यद्वा सर्वेषां-मनोवाक्कायानां ध्यानाध्ययचक्रमणादिचेष्टाविपया शक्तिरिति सूत्रषट्कार्थः॥ जरात: शरीरशक्तिरुक्ता, सम्प्रति रोगतस्तामाह Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388