________________
२८२
उत्तराध्ययन-मूलसूत्रम्-१-१०/३१०
इह कामुगुणेहिं मुच्छिया, समयं ॥ ७. अन्यच्च-'धर्म' प्रक्रमात् सर्वज्ञप्रणीतम् 'अपिः' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन-शरीरेण, उपलक्षणत्वान्मनसा वाचा च, 'स्पर्शका' अनुष्ठातारः, कारणमाह-'इह' अस्मिन् जगति कामगुणेषु' शब्दादिषु 'मूच्छिता' मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति शेषः, प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गः प्राणीनां, यत उक्तम्
"प्रायेण हि यदपथ्यं तदेव चातुरजनप्रियं भवति ।
विषयातुरस्य जगतस्तथाऽनुकूल: प्रिया विपयाः ।।" पाठान्तरतः कामगुणैर्मूच्छिता इव मूच्छिताः, विलुप्तधर्मविपयचैतन्यत्वात्, यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ।। अन्यच्च सति शरीरे तत्सामर्थ्य च सति धर्मस्पर्शनेति तदनित्यताऽभिधानद्वारेणाप्रमादोदोपदेशमाहमू. (३११) परिजूरइ ते सरीरयं, केसा पंडुरगा (य) भवंति ते।
से सोयबले य हायइ, समयं०॥ मू. (३१२)
परि चक्खुबले० ॥ मू. (३१३)
घाणबले०॥ मू.(३१४)
रसनबले०॥ मू. (३१५)
फासबले०॥ मू.(३१६)
सव्वबले०॥ वृ. परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानातयाऽनुकम्पनीयमिति शरीरकं, यद्वा 'परिजूरइ'त्ति 'निन्देर्जूर' इति प्राकृतलक्षणतात् परिनिन्दतीवाऽऽत्मानमिति गम्यते, यथा-धिग्मां कीदृशं जातमिति, किमिति?-यत: 'केशाः' शिरसिजाः, उपलक्षणत्वात् लोमानि च पाण्डुरा एव पाण्डुरका भवन्ति, पूर्वं जननयनहारिणोऽन्यन्तकृष्णाः सम्प्रति शुक्लतां भजन्ते 'ते' तव, पुनस्तेशब्दोपादानं भित्रवाक्यत्वात् उपदेशाधिकारत्वाच्चादुष्टम्, एवमुत्तरत्रापि, तथा 'से' इति तत् यत् पूर्वमासित् श्रोत्रयोः-कर्णयोर्बलंदूरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं, 'चः' समुच्चये, हीयते' जरातः क्षयमुपैति, यद्वा-शरीरजीर्णताऽवस्थाभाव्येतद्वयमपि योज्यं, यथा-परिजीर्यते शरीरकं तथा च सति केशाः पाण्डुरका भवन्ति 'से' इत्यथ श्रोत्रबलं हीयते यत: ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात् समयमपि गौतम ! मा प्रमादीः । एवं सूत्रपञ्चकमपि नेयं ।
नवरमिह प्रथमतः श्रोत्रोपादानं प्रधानत्वात्, प्रधानत्वं च तस्मिन् सति शेषेन्द्रियाणामवश्यं भावात् पटुतरक्षयोपशमजत्वाच्च, तथोपदेशाधिकारादुपदेशस्य च श्रोतग्राह्यत्वात् । तथा च 'सर्वबलं'मिति सर्वेषा-करचरणाद्यवयवानां स्वस्वव्यापारसामर्थ्य, यद्वा सर्वेषां-मनोवाक्कायानां ध्यानाध्ययचक्रमणादिचेष्टाविपया शक्तिरिति सूत्रषट्कार्थः॥ जरात: शरीरशक्तिरुक्ता, सम्प्रति रोगतस्तामाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org