________________
२८३
-
अध्ययनं-१०,[नि. ३०९] मू. (३१७) अरई गंडं विसूईया, आयंका विविहा फुसंति ते।
विहडइ विद्धंसइ ते सरीरयं, समयं० ।।। वृ. 'अरतिः' वातादिजनिताश्चित्तोद्वेगः 'गण्डं'गडु, विध्यतीव शरीरं सूचिभिरिति विसूचिका-अजीर्णविशेषः, आडिति सर्वात्मप्रदेशाभिव्याप्त्या तङ्कयन्ति-कृच्छ्रजीवितमात्मानं कुर्वन्तीत्यातङ्काः-सद्योघातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः 'स्पृशन्ति' परामृशन्ति 'ते' तव, शरीरकमिति गम्यते, ततश्च 'विपतति' विशेषण बलापचयादपैति 'विध्वस्यते' जीवविप्रमुक्त च विशेषणाध:पतित ते शरीरकम्, अतः समयमपि गौतम ! मा प्रमादीः, सर्वत्र च वर्तमाननिर्देशः प्राग्वत् । केशपाण्डुरत्वादिकं यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेपशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ।। यथा चाप्रमादो विधेयस्तथा चाहमू. ( ३४८) वुच्छिंद सिनेहमप्पणो, कुमुयं सारइयं व पाणियं।
से सव्वसिणेहवज्जिए, समयं०॥ वृ. 'वोच्छिद'त्ति विविधैः प्रकारैरुत्-प्राबल्येन छिन्द्धि अपनय व्युच्छिन्द्धि, कम् ? - 'स्नेहम्' अभिष्वङ्ग, कस्य सम्बन्धिम्?-आत्मनः, किमिव? - 'कुमुदमिव' चन्द्रोद्योतविकाश्युत्पलमिव 'सारइयं वत्ति सूत्रत्वाच्छरदि भवं शारदं, वेत्युपमार्थो भिन्नक्रमश्च प्राग् योजितः 'पानीयं' जलं, यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्तते तथा त्वमपि चिरसंसृष्टाचिरपरिचितत्वादिभिर्मद्विषयस्नेहवशगोऽपितमपनय, अपनीय च 'से' इत्यर्थानन्तरं सर्वस्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह च जलमपहायैतावति सिद्धे यच्छारदशब्दोपादानं तच्छारदजलस्येव स्नेहस्याप्यतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः ।। किञ्चमू. (३१९) चिच्चा न धनं च भारियं, पव्वइओ हि सि अनगारियं ।
मा वंतं पुनोवि आविए, समय० ॥ वृ. 'त्यक्त्वा' परिहत्य 'न' इति वाक्यालङ्कारे धनं' चतुष्पदादि चशब्दो भित्रक्रमः, ततो 'भार्यांच' कलत्रं च प्रव्रजितः' गृहान्निष्क्रान्तः, 'हिः' इति यस्मात् 'सी'ति सूत्रत्वेनाकारलोपात् 'असि' भवसि अनगारियं' ति अनगारेषे-भावभिक्षुषु भवमानगारिकमनुष्ठानं चस्य गम्यमानत्वात् तच्च प्रतिपन्नवानसीति शेषः, यद्वा प्रव्रजित:-प्रतिपन्नः 'अनगारियं'ति अनगारितम्, अतो 'मा' इति निषेधे, 'वान्तम्' उद्गीर्णं 'पुणोवि'त्ति पुनरपि 'आविए'त्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः । कथं च वान्ताऽऽपानं न भवतीत्याहमू. (३२०) अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं।
मा तं बिइयं गवेसए समयं० ॥ वृ.'अपोह्य' त्यक्त्वा, मित्राणि च-सुहृदो बान्धवाश्च-स्वजना इति समाहारे मित्रबान्धवं, 'विपुलं' विस्तीर्णं 'चः' समुच्चये भिन्नक्रमश्च ‘एव' इति पूरणे, ततो धनं-कनकादिद्रव्यं, तस्यौधः-समुहस्तस्य पञ्चयो-राशीकरणं धनौघसञ्चयस्तं च, मा तदिति' मित्रादिकं, द्वितीयं, पुनर्ग्रहणार्थमिति गम्यते, 'गवेषय' अन्वेषय, तत्परित्यागात् श्रामण्यमङ्गीकृत्य पुनस्तदभिष्वङ्गवान् मा भूः, त्यक्तं हितद्वान्तोपमं तदभिष्वङ्गश्च वान्ताऽऽपानप्राय इत्यभिप्रायः, किन्तु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः । इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्धयर्थमिदमाह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org