________________
अध्ययनं-१०,[ नि.३०९]
२८१ मू. ( ३०६) लभृणऽवि मानुसत्तणं. आयरित्तणं पुनरावि दुल्लभं ।
बहवे दसुया मिलेक्खया, समयं० ।।। __ वृ. 'लध्वाऽपि' प्राप्यापि 'मानुषत्वं' इदं तावदतिदुर्लभमेव कथञ्चित्तु लब्ध्वाऽ पीत्यपिशब्दार्थः, 'आर्यत्वं' मगधाद्यार्यदेशोत्पत्तिलक्षणं 'पुनरपि' भूयोऽपिआकारस्त्वलाक्षणिकः, 'दुर्लभः' दुरवापं, किमिति ।, अत आह-बहवः--प्रभूता दस्यवो-देशप्रत्यन्तवासिनश्चोराः 'मिलेक्खु य'त्ति म्लेच्छा-अव्यक्तवाचो, न यदुक्तमारवधार्यते, ते च शकयवनशबरादिदेशोद्भवाः, येष्ववाप्यापि मनुजत्वं जन्तुरुत्पद्यते, एते च सर्वेऽपि धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिसकलार्यव्यवहारबहिष्कृतास्तिर्यप्राया एवेति समयमपि गौतम ! मा प्रमादीः । मू. (३०७) लभूऽवि आरियत्तणं, अहीनपंचिंदियया हु दुल्लहा।
विगलिंदियता हु दीसइ, समयं० ॥ व. इत्थमार्यदेशोत्पत्तिरूपमार्यत्वमतिदुर्लभं, तथाविधमपि लब्ध्वाऽपि 'आर्यत्वम्' उक्तरूपम्, अहीनानि-अविकलानि पञ्चेन्द्रियाणि-स्पर्शनादीनि यस्य स तथा तद्भावोऽहीनपञ्चेन्द्रियता 'हुः' अवधारणे भिन्नक्रमश्च, दुर्लभा एव, यद्वा हुः पुनरर्थे, अहीनपञ्चेन्द्रियता पुनर्दुलभा, इहैव हेतुमाह-विकलानि-रोगादिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता, हुरिति निपातोऽनेकार्थतया च बाहुल्यसूचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते ततो दुर्लभैवाहीनपञ्चेन्द्रियता, तथा च समयमपि गौतम ! मा प्रमादीः । मू. (३०८) अहीनपंचिदियत्तंपि से लहे, उत्तमधम्मसुती हु दुल्लहा।
मिच्छत्तनिसेवए जने, समयं ॥ वृ. तथा कथञ्चिदहीनपञ्चेन्द्रियतामप्युक्तन्यायतोऽतिर्दुलामपि 'स' इति जन्तुः ‘लभेत' प्राप्नुयात्, तथाऽप्युत्तमः-प्रधानो यो धर्मस्तस्य 'श्रुतिः' आकर्णनात्मिका या सा तथा, 'हुः' अवधारणे भिन्नक्रमश्च, ततो दुर्लभैव, किमिति?, यतः-कुत्सितानि च तानि तीर्थानि कुतीर्थानि च-शाक्यौलूक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थनस्तानितरां सेवते यः सकुतीथिनिषेवको जनो-लोकः, कुतीथिनो हि यश: सत्काराद्येषिणो यदेव प्राणिप्रियं विषयादि तदेवोपदिशन्ति, तत्तीर्थकृतामप्येविधत्वात्, उक्तं हि- .
___ "सत्कारयशोलाभाथिभिश्च मूरिहान्यतीर्थकरैः।
अवसादितं जगदिदं प्रियाण्यपथ्यान्युपदिशद्भिः ।।" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमप्रमादीः । मू. (३०९) लभ्रूणवि उत्तमं सुई, सद्दहणा पुनरावि दुल्लहा।
मिच्छत्त० समय० ॥ वृ.किंच-लब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा तां श्रुतिम्' उक्तिरूपां श्रद्धान्' तत्त्वरुचिरूपं 'पुनरावि'त्ति पुनरपि 'दुर्लभं' दुरापम्, इहैव हेतुमाह-मिथ्याभावो मिथ्यात्वम्अतत्त्वेऽपि तत्त्वप्रत्ययरूपं चं निषेवते यः स मिथ्यात्वनिषेवको जनो-लोकः, अनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्राय: प्रवृत्तेः, यत एवमतः समयमपि गौतम? मा प्रमादीः ।
मू.( ३१०) धम्मपि हु सदहंतया, दुलभया काएण फासया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org