________________
२८०
उत्तराध्ययन-मूलसूत्रम्-१-१०/२९९ "अस्संखोसप्पिणिउस्सप्पिणीउ एगंदियाण उ चउण्हं।
ता चेव ऊ अनंता वणस्सतीए उ बोद्धव्वा ॥" मू. ( ३००)
बेइंदियकाय० उक्को०।
___ कालं संखिज्जसन्नियं समयं ॥ वृ.तथा द्वे-द्विसङ्खये इन्द्रिये-स्पर्शनरसनाख्ये येषां ते द्विन्द्रिया:-कृम्यादयः, तत्कायमतिगत उत्कर्पतो जीवस्तु संवसेत् कालं सङ्खयेयसज्ञितं-सङ्ख्यातवर्षसहस्रात्मकम्, अतः समयमपि गौतम ! मा प्रमादीः॥ मू.(३०१)
तेइंदिय० ॥ मू.(३०२)
चउरिंदिय० ॥ वृ. एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ।। मू.(३०३) पंचिंदियकायमइगओ उक्कोसं० ।
सत्तभवग्गहणे समयं० ।। वृ. तथा पञ्च इन्द्रियाणि-स्पर्शनादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्ताष्टानि तानि च तानि भवग्रहणानि च- जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम! मा प्रमादीः। मू. (३०४) देवे नरए य गओ, उक्कोसं० ।
एक्के कभवग्गहणे, समय० ॥ वृ.तथा देवान्नैरयिकांश्च अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैकभवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उक्कोसंति' उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालंत्रयस्त्रिंशत्सागरोपममानम्, 'एगेगभवग्गहणं'ति अपेर्गम्यमानत्वादेकैकमवग्रहणमपि संवसति, अतो जीवः संवसेत् अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ।। उक्तमेवार्थमुपसंहर्तुमाहमू. (३०५) एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं ।
जीवो पमायबहुलो, समयं० ॥ वृ. एवम्' उक्तप्रकारेण पृथिव्यादिकायस्थितिलक्षणेन भवा एव-तिर्यगादिजन्मात्मका: संस्रियमानत्वात् संसारो भवसंसारस्तस्मिन्, 'संसरन्ति' पर्यटन्ति शुभानि चशुभप्रकृत्यात्मकानि अशुभानि च-अशुभप्रकृतिरूपाणि शुभाशुभानि तैः कर्मभिः' पृथ्वीकायादिभवनिबन्धनैः 'जीवः' प्राणी प्रमादैर्बहुलो-व्याप्तः प्रमादबहुलः, यद्वा बहून्-भेदान् लातीति बहुलो मद्याधनेकभेदतः प्रमादो-धर्मं प्रत्यनुद्यमात्मकोयस्य स बहुलप्रमादः, सूत्रे च व्यत्ययनिर्देशः प्राग्वत्, इह चायमाशयः-यतोऽयं जीवः प्रमादबहुलः सन् शुभाशुभानि कर्माण्युपचिनोति, उपचित्य च तदनुरूपासु गतिष्वाजवंजवीभावमुपगम्य भ्राम्यति, ततो दुर्लभत्वात् पुनर्मानुषत्वस्य प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः । एवं मनुजभवदुर्लभत्वमुक्तम्, इदानीं तदवाप्तावप्युत्तरोगुणावाप्तिरतिदुरापैवेत्याहJain Education International
For Private & Personal Use Only
www.jainelibrary.org