Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 283
________________ २८० उत्तराध्ययन-मूलसूत्रम्-१-१०/२९९ "अस्संखोसप्पिणिउस्सप्पिणीउ एगंदियाण उ चउण्हं। ता चेव ऊ अनंता वणस्सतीए उ बोद्धव्वा ॥" मू. ( ३००) बेइंदियकाय० उक्को०। ___ कालं संखिज्जसन्नियं समयं ॥ वृ.तथा द्वे-द्विसङ्खये इन्द्रिये-स्पर्शनरसनाख्ये येषां ते द्विन्द्रिया:-कृम्यादयः, तत्कायमतिगत उत्कर्पतो जीवस्तु संवसेत् कालं सङ्खयेयसज्ञितं-सङ्ख्यातवर्षसहस्रात्मकम्, अतः समयमपि गौतम ! मा प्रमादीः॥ मू.(३०१) तेइंदिय० ॥ मू.(३०२) चउरिंदिय० ॥ वृ. एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ।। मू.(३०३) पंचिंदियकायमइगओ उक्कोसं० । सत्तभवग्गहणे समयं० ।। वृ. तथा पञ्च इन्द्रियाणि-स्पर्शनादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्ताष्टानि तानि च तानि भवग्रहणानि च- जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम! मा प्रमादीः। मू. (३०४) देवे नरए य गओ, उक्कोसं० । एक्के कभवग्गहणे, समय० ॥ वृ.तथा देवान्नैरयिकांश्च अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैकभवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उक्कोसंति' उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालंत्रयस्त्रिंशत्सागरोपममानम्, 'एगेगभवग्गहणं'ति अपेर्गम्यमानत्वादेकैकमवग्रहणमपि संवसति, अतो जीवः संवसेत् अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ।। उक्तमेवार्थमुपसंहर्तुमाहमू. (३०५) एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं० ॥ वृ. एवम्' उक्तप्रकारेण पृथिव्यादिकायस्थितिलक्षणेन भवा एव-तिर्यगादिजन्मात्मका: संस्रियमानत्वात् संसारो भवसंसारस्तस्मिन्, 'संसरन्ति' पर्यटन्ति शुभानि चशुभप्रकृत्यात्मकानि अशुभानि च-अशुभप्रकृतिरूपाणि शुभाशुभानि तैः कर्मभिः' पृथ्वीकायादिभवनिबन्धनैः 'जीवः' प्राणी प्रमादैर्बहुलो-व्याप्तः प्रमादबहुलः, यद्वा बहून्-भेदान् लातीति बहुलो मद्याधनेकभेदतः प्रमादो-धर्मं प्रत्यनुद्यमात्मकोयस्य स बहुलप्रमादः, सूत्रे च व्यत्ययनिर्देशः प्राग्वत्, इह चायमाशयः-यतोऽयं जीवः प्रमादबहुलः सन् शुभाशुभानि कर्माण्युपचिनोति, उपचित्य च तदनुरूपासु गतिष्वाजवंजवीभावमुपगम्य भ्राम्यति, ततो दुर्लभत्वात् पुनर्मानुषत्वस्य प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः । एवं मनुजभवदुर्लभत्वमुक्तम्, इदानीं तदवाप्तावप्युत्तरोगुणावाप्तिरतिदुरापैवेत्याहJain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388