Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 289
________________ २८६ - उत्तराध्ययन-मूलसूत्रम्-१-१०/२२६ पन्थाः यद्वा शान्तिः- उपशमः सैव मुक्तिहेतुतया मार्गः शान्तिमार्गो, दशविधधर्मोपलक्षणं शान्तिग्रहणं, चशब्दो भिन्नक्रमः, ततो बृहयेश्च-भव्यजनप्ररूपणया वृद्धि नयेः, ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ।। इत्थं भगवदभिहितमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाहमू. (३२७) बुद्धस्स निसम्म भासियं, सुकहियमट्ठपदोवसोहियं । रागं दोसंच छिंदिया, सिद्धिगई गए गोयमे। वृ. 'बुद्धस्य' केवलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमाच्छीमन्महावीरस्य 'निशम्य' आकर्ण्य भाषितम्' उक्तं, सुष्ठ-शोभनेन नयानुगतत्वादिना प्रकारेण कथितं-प्रबन्धेन प्रतिपादितं सुकथितम्, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं-जातशोभमर्थपदोपशोभितं 'रागं' विषयाद्यभिष्वङ्गं 'द्वेषम्' अपकारिण्यप्रीतिलक्षणं, 'च:' समुच्चये छित्त्वा' अपनीय सिद्धिगति' मुक्तिगतिं 'गतः' प्राप्तः ‘गौतमः' इन्द्रभूतिनामा भगवत्प्रथमगणधर इति सूत्रार्थः ।। इति:' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, इत्युक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् । । अध्ययनं-१० समाप्तम् - मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययन सूत्रे सनियुक्तिः सटीकं समाप्तम् अध्ययनं - ११- बहुश्रुतपूजा ) वृ.उक्तं दशममध्ययनं, साम्प्रतमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तं, तच्च विवेकिनैव भावयितुं विवेकश्च बहुश्रुतपूजात उपजायत इति बहुश्रुतपूजोच्यते इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्ररूपयितव्यानि, यावन्नामनिष्पन्ने निक्षेपे 'बहुसूत्रपूजा बहुश्रुतपूजे'ति वा नाम, अतस्तन्निक्षेपपप्रतिपिपादयिषयेदमाह नियुक्तिकृतनि.[३१०] बहु सुए पूजाए य तिण्हंपि चउक्कओ य निक्खेवो। दव्वबहुगेण बहुगा जीवा तह पुग्गला चेव॥ वृ. 'बहु'त्ति बहोः 'सुए'त्ति शतमुखत्वात् प्राकृतस्य सूत्रस्य श्रुतस्य वा 'पुयाए य'त्ति पूजायाश्च त्रयाणामपि' अमीषां पदानां 'चतुष्कस्तु' चतुष्परिमान एव 'निक्षेपः' न्यासः, स च नामादिः, तत्र नामस्थापने क्षुन्ने, द्रव्यतस्तु बह्वभिधातुमाह-'दव्वबहुएण'त्ति आर्षत्वात् द्रव्यतो बहुत्वं द्रव्यबहुत्वं तेन ‘बहुका:' प्रभूताः 'जीवाः' उपयोगलक्षणाः, तथा 'पुद्गला:' स्पर्शादिलक्षणाः, चशब्दः पुद्गलानां जीवापेक्षया बहुतरत्वं ख्यापयति, ते ह्येकैकस्मिन् संसारिजीवप्रदेशेऽनन्तानन्ता एव सन्ति, 'एव:' अवधारणे, जीवपुद्गला एव द्रव्यबहवः, तत्र धर्माधर्माऽऽकाशानामेकद्रव्यत्वात् कालस्यापि तत्त्वतः समयरूपत्वेन बहुत्वाभावादिति नि.[३११] .. भावबहुएण बहगा चउदस पुव्वा अनंतगमजुत्ता। भावे खओवसमिए खइयंमि य केवलं नाणं ॥ वृ. 'भावबहुगेणं'ति प्राग्वत् भावबहुत्वेन बहुग'त्ति बहुकानि 'चतुर्दश' चतुर्दशसङ्घयानि For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388