Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
-
अध्ययनं-१०,[नि.३०९]
२८५ मुपायं स्वगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद्दिनानि सम्यगुद्वहति, अनन्तरंच क्वचिदुपलादिसंकुले पथि अहो। अहमनेन भारेणाऽऽक्रान्त इति तमुत्सृज्य स्वगृहमागतः अत्यन्तनिर्धनतयाऽनुतप्यते--किं मया मन्दभाग्येन तत्परित्यक्तमिति?, एवं त्यमपि प्रमादपरतया त्यक्तसंयमभार: सन्नेवंविधो मा भूः, किन्तु समयमपि गौतम ! मा प्रमादीरिति सत्रार्थः ।। बह्विदमद्यापि निस्तरणीयमल्पं च निस्पीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह- . मू. (३२४) तित्रो हु सि अन्नवं महं, किं पुन चिट्ठसि तीरमागओ?।
__ अभितुर पारंगमित्तए, समयं० ॥ वृ. 'तिन्नो हु सि'त्ति तीर्ण एवासि, अर्नवमिवार्णवं 'महं'ति महान्तं गुरुं, किमिति प्रश्ने पुनरिति वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि?, 'तीरं' पारम् 'आगतः' प्राप्तः, किमुक्तं भवति? - भव उत्कृष्टस्थितीनि वा कर्माणि भावतोऽर्णव इत्युच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एव इति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे?, नैवेदं तवोचितमित्याशयः । किन्तु 'अभितुर'त्ति अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव, 'पारं' परतीरं भावतो मुक्तिपदं 'गमित्तए'त्ति गन्तुम्, अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ।। अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति, अत आह-अथवा शेषशिष्यापेक्षया किमस्याप्रमादस्य फलम् ? यत्पुनः पुनरयमुपदिश्यते इत्याहमू.( ३२५) अकलेवरसेणिमूसिया, सिद्धिं गोयम! लोयं(य) गच्छसि।
खेमं च सिवं अनुत्तरं, समय० ॥ ७. कलेवरं-शरीरम् अविद्यमानं कडेवरमेपामकडेवरा:-सिद्धास्तेषां श्रेणिरिव श्रेणिर्ययोत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति(तां), क्षपक श्रेणिमित्यर्थः । यद्वा कडेवराणि-एकेन्द्रियशरीराणि तन्मयत्वेन तेषां श्रेणिः कडेवरश्रेणिः-वंशादिविरचिता प्रासादादिष्वारोहणहेतुः, तथा च या नसा अकडेवरश्रेणि:-अनन्तरोक्तरूपैव ताम् ‘उस्सिय'त्ति उत्सृतां, गमिष्यसीति सम्बन्धः, यद्वा 'उस्सिय'त्ति उच्छ्रित्येवोच्छ्रित्य-उत्तरोत्तरसंयमस्थानावाप्त्या तामच्छ्रितामिव कृत्वा सिद्धिम्' इति सिद्धिनामानं 'गोयम! लोयं गच्छसि'त्ति प्राग्वल्लोकं गमिष्यसि, संशयव्यवच्छेदफलत्वाच्चास्य गमिष्यस्येव, 'क्षेमं' परचक्राद्युपद्रवरहितं, 'चः' समुच्चये भिन्नक्रमश्च, 'शिवमनुत्तरं' च तत्र शिवमशेषदुरितोपशमेन अनुत्तरं नास्योत्तरमन्यत् प्रधानमस्तीत्यनुत्तरं, सर्वोत्कृष्टमित्यर्थः, यतश्चैवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः
सम्प्रति निगमयन्नुपदेशसर्वस्वमाहमू. (३२६). बुद्धे परिनिव्वुए चरे, गाम गए नगरे व संजए।
संतिमग्गं च बूहए, समयं०॥ वृ.'बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः' कषायाग्न्युपशमतः समन्तात् शीतीभूतः 'चरे:' आसेवस्व, संयममिति शेषः, 'गाम'त्ति सुपो लोपात् ग्रामे 'गतः' स्थितो नगरे वा, उपलक्षणत्वादरण्यादिषु वा, किमुक्तं भवति ? -सर्वस्मिन्ननभिष्वङ्गवान्, सम्यग् यतःपापस्थानेभ्य उपरतः संयतः, शाम्यन्त्यस्यां सर्वदुरितानीति शान्तिः-निर्वाणं तस्या मार्गः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388