Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 227
________________ २२४ उत्तराध्ययन- मूलसूत्रम् - १-७ / १७८ पायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते, इत्यनेनाभिसम्बन्धेनायातस्याध्याययनस्योपक्रमादिद्वारचतुष्टयमुपवर्ण्यं तावद्यावन्नामनिष्पन्ननिक्षेते उरभ्रीयमिति नाम, अत उरभ्रनिक्षेपमाहनि. [ २४४] निक्खेवो उ उरब्भे चउव्विओ दुव्विहो य होइ दव्वंमि । आगमनोआगमओ नोआगमओ अ सो तिविहो । वृ.‘निक्षेप:' न्यासः, तुः पूरणे, 'उरभ्रे' उरभ्रविषय: 'चतुर्विधः' चतुष्प्रकारः, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे एव इति द्रव्योरभ्रमाह-द्विविधो भवति 'द्रव्य' इति द्रव्यविषयः, आगमनोआगमतः तत्रागमत उरभ्रशब्दार्थज्ञः तत्र चानुपयुक्तः, नोआगमतः पुनः, चस्य पुनरर्थत्वात्, 'स' इति द्रव्योरभ्र: 'त्रिविधः ' त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाहनि. [ २४५ ] जाण सरीरभवितव्वइरित्ते अ सो पुनो तिविहो । एगभविअ बद्धाऊ अभिमुहओ नामगोए अ ॥ वृ. ज्ञशरीरोभ्र उरभ्रशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते, भव्यशरीरो भ्रस्तु यस्तावदुरभ्रशब्दार्थं न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं, 'तद्वयतिरिक्तश्च' ताभ्यांज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तोभिन्नः तद्वयतिरिक्तः, च समुच्चये, 'स' तद्वयतिरिक्तः पुन: 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह - 'एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविकोयोऽन्तर एव भवे उरभ्रतयोत्पत्स्यते, तथा स एवोरभ्रायर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुष्क उच्यते, तृतीयमाह-‘अभिमुहतो नामगोए य'त्ति आर्षत्वादभिमुखनामगोत्रश्च तत्राभिमुखेसम्मुखे अन्तर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसम्बन्धिनी यस्य स तथोक्तः, अन्तर्मुहूर्तानन्तरमेवोरभ्रभवभावीति गाथार्थः ॥ भावोरभ्रमध्ययननामनिबन्धनं चाह नि. [ २४६ ] उरभाउनामगोयं वेयंतो भावओ उ ओरब्भो । तत्तो समुट्ठियमिणं उरब्भिज्जन्ति अज्झयणं ॥ वृ. उरभ्र- ऊरणकः तस्यायुश्च नाम च गोत्रं चोरभ्रायुर्नामगोत्रं, यदुदयादुरभ्रो भवति, 'वेदयन् ' अनुभवन्‘भावतो' भावमाश्रित्योरभ्रः, तुशब्दः पर्यायस्तिकमतमेतदिति विशेषणार्थः, 'ततो' भावोरभ्राद् दृष्टान्ततयेहाभिधेयात्समुत्थितम् उत्पन्नमिदमिति प्रस्तुतं यस्मादिति गम्यते, 'उरब्भिज्जं 'ति उरभ्रीयं ग्रहादित्वाच्छैषिकठप्रत्ययः 'इती'ति तस्माद् अध्ययनं प्रागुक्तनिरुक्तमुच्यत इति शेष इति गाथार्थः ॥ उरभ्रस्यैव चेह प्रथममुच्यमानत्वाद्बहुवक्तव्यत्वाच्चेत्थमुक्तम्, अन्यथा हि काकिण्यादयो ऽपि दृष्टान्ता इहाभिधीयन्ते एव, तथा चाह निर्युक्तिकृत्नि. [२४७] ओर अ कागिणी अंबए अ ववहार सागरे चेव । पंचे दिट्ठता उरब्भिज्जंमि अज्झयणे ॥ वृ. ‘उरभ्र' उक्तरूप: ‘काकिणि:' विंशतिकपर्दकाः 'उरब्भे य'त्ति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च 'अंबए य'त्ति आम्रकं च- आम्रफलं, व्यवहारश्च क्रयविक्रयरूपो वणिग्धर्मः, चस्य गम्यमानत्वात्, सागरश्च- समुद्रः, च सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते - पञ्चैवैते न तु न्यूनाधिकाः 'दृष्टान्ता' उदाहरणानि 'उरध्रीये' उरभ्रीयनाम्न्यध्ययन इति गाथार्थः ॥ सम्प्रति यदर्थसाधर्म्यादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह For Private & Personal Use Only Jain Education International - www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388