Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 258
________________ अध्ययनं - ९, [ नि. २७९] २५५ स्थामाश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः, यदिवा राज्यावस्थायामपि ऋषिरिव ऋषि:क्रोधादिपड्वर्गजयात्, तथा च राजनीति: "कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं, तस्मिंस्त्यक्ते सुखी नृपः ।। " तस्मिन् 'नमौ' नमिनाम्नि, 'अभिनिष्क्रामति' गृहात् कषायादिभ्यो वा निर्गच्छतीति मू. ( २३४ ) अब्भुट्ठियं रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेणं, इमं वयणमब्बवी ॥ वृ. 'अभ्युत्थितम्' अभ्युद्यतं 'राजर्षि' प्राग्वत् प्रव्रज्यैव स्थानं तिष्ठिन्ति सम्यग्दर्शनादयो गुणा अस्मिन्नितिकृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः, 'उत्तमं' प्रधानं, सुब्व्यत्ययेन सप्तम्यर्थे वाद्वितीया, ततः प्रव्रज्यास्थान उत्तमे 'अभ्युपगतं' तद्विपयोद्यमवन्तं 'शक्र: ' इन्द्रो 'माहनरूपेण' ब्राह्मणवेषेण, आगत्येति शेषः, तदा हितस्मिन् महात्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकाम: स्वयमिन्द्र आजगाम, ततः स 'इदं' वक्ष्यमाणम्, उच्यत इति वचनं वाक्यम् 'अब्रवीत्' उक्तवानिति सूत्रार्थः ॥ यदुक्तवांस्तदाह मू. ( २३५ ) किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुच्चति दारुणा सद्दा, पासाएसु गिहेसु अ ? ॥ वृ. 'किम्' इति परिप्रश्ने 'नु' इति वितर्के ' भो' इत्यामन्त्रणे 'अद्य' एतस्मिन् दिने 'मिथिलायां' नगर्यां कोलाहलकेन-बहलकलकलात्मकेन सङ्कला:- व्याकुलाः कोलाहलकलसंकुलाः ‘श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तन्निराकरणायाह- दारयन्ति जनमनांसीति दारुणाः - विलपिताऽऽक्रन्दितादय:, क्व पुनस्ते ? - 'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु यद्वा 'प्रासादो देवतानरेन्द्राणा' मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्बन्धिष्वास्पदेषु 'गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ततश्च मू. ( २३६ ) एयमद्वं निसामित्ता, हेउकारणचोइओ । ततो नमी रायरिसी, देविंदं इणमब्बीवी ॥ वृ. 'एनम्' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनि 'निशम्य आकर्ण्य हिनोति-गमयति विवक्षितमर्थमिति हेतु:, स च पञ्चावयववाक्यरूपः कारणं च-अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः- प्रेरित : हेतुकारणचोदितः, कोलाहलकसङ्कुला: दारुणा: शब्दां श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि - अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतु:, प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं वाक्यमिह हेतु:, शेषावयवविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्न मिति एतावन्मात्रं कारणम्, अनयोस्तु, पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थं, तथा चाह श्रुतकेवली > For Private & Personal Use Only Jain Education International - www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388