Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 270
________________ अध्ययनं - ९, [ नि. २७९] २६७ ‘इन्द्रत्वम्’ उत्तरवैक्रियरूपभिन्द्रस्वभावं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिष्टुवन्' आभिमुख्येन स्तुतिं कुर्वन्, 'आभिः ' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः ' श्रुतिसुखाभिः ' 'वग्गूहिं'ति आर्पत्वाद्वाग्भिः - वाणीभिः, तद्यथा मू. ( २८४ ) अहो ते निज्जिओ कोहो, अहो मानो पराइओ । अहो ते निरक्किया माया, अहो लोभो वसीकओ ॥ वृ. 'अहो' इति विस्मये 'ते' इति त्वया नितराम् - अतिशयेन जित: अभिभूतः निर्जितः 'क्रोधः' कोप:, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यभिप्रायः, तथा 'अहो' 'ते' त्वया 'मानः ' अहमितिप्रत्यहेतुः 'पराजित: ' अभिभूतः, यस्त्वं मन्दिरं दहाते इत्याद्युक्तेऽपि कथं मयि जीवतीदमिति नाहङ्कतिं कृतवानीति, तथा 'अहो ते नरक्किय'त्ति प्राकृतत्वान्निराकृता - अपास्ता माया यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु निकृतिहेतुकेष्वामोषकोच्छेदनादिषु च न मनो निहितवान्, तथा च अहो ते लोभो 'वशीकृत' इति नियन्त्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान्, अत एव, , मू. ( २८५ ) अहो ते अज्जवं साहू, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा । वृ. अहो ‘ते' तव ‘आजवम्' ऋजुत्वं 'साधु' शोभनम्, अहो ते साधु 'मार्दवं' मृदुत्वम्, अहो ते 'उत्तमा' प्रधाना 'क्षान्तिः ' कोपोपशमलक्षणा, अहो ते 'मुक्तिः ' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णद्वारेणाभिष्टुस्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाह मू. ( २८६ ) इहंऽसि उत्तमो भंते!, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छति नीरओ ॥ वृ. 'इह' अस्मिन् जन्मनि 'असि' भवसि 'उत्तमः ' प्रधानः, उत्तमगुणान्वितत्वात्, 'भंते'त्ति पूज्याभिधानं 'प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह - लोकस्य चतुर्दशरज्ज्वात्मकस्य ‘उत्तमम्' उपरिवर्ति लोकोत्तमम् 'उत्तमं' देवलोकाद्यपेक्षया प्रधानम्, अथवा 'लोगोत्तममुत्तमं 'ति मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तमं तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह - 'सिद्धि' मुक्तिं 'गच्छति'त्ति सूत्रत्वाद्गमिष्यसि, निर्गतो रजसः - कर्मण इति नीरजा इति सूत्रार्थः ॥ उपसंहारमाहएवं अभित्थुणंतो रायरिसिं उत्तमाए सद्धाए । मू. ( २८७ ) पायाहिणं करेंतो पुनो पुनो वंदती सक्को ॥ वृ. ‘एवम्' अमुनोक्तन्याये अभिष्टुवन् 'राजर्षिम्' उक्तरूपं, प्रक्रमान्नमिम्, 'उत्तमया' प्रधानया 'श्रद्धया' भक्त्या 'पायाहिण' न्ति प्रदक्षिणां 'कुर्वन्' विदधत् पुन: पुन: 'वन्दते' प्रणमति 'शक्र: ' पुरन्दर इति सूत्रार्थः । अनन्तरं च यत् कृतवांस्तदाहतो वंदिऊण पाए चक्कंकुसलक्खिए मुनिवरस्स । आगासेणुप्पतिओ ललियचवलकुंडलतिरीडी ॥ मू. ( २८८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388