________________
अध्ययनं - ९, [ नि. २७९]
२६७
‘इन्द्रत्वम्’ उत्तरवैक्रियरूपभिन्द्रस्वभावं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिष्टुवन्' आभिमुख्येन स्तुतिं कुर्वन्, 'आभिः ' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः ' श्रुतिसुखाभिः ' 'वग्गूहिं'ति आर्पत्वाद्वाग्भिः - वाणीभिः, तद्यथा
मू. ( २८४ )
अहो ते निज्जिओ कोहो, अहो मानो पराइओ । अहो ते निरक्किया माया, अहो लोभो वसीकओ ॥
वृ. 'अहो' इति विस्मये 'ते' इति त्वया नितराम् - अतिशयेन जित: अभिभूतः निर्जितः 'क्रोधः' कोप:, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यभिप्रायः, तथा 'अहो' 'ते' त्वया 'मानः ' अहमितिप्रत्यहेतुः 'पराजित: ' अभिभूतः, यस्त्वं मन्दिरं दहाते इत्याद्युक्तेऽपि कथं मयि जीवतीदमिति नाहङ्कतिं कृतवानीति, तथा 'अहो ते नरक्किय'त्ति प्राकृतत्वान्निराकृता - अपास्ता माया यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु निकृतिहेतुकेष्वामोषकोच्छेदनादिषु च न मनो निहितवान्, तथा च अहो ते लोभो 'वशीकृत' इति नियन्त्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान्, अत एव,
,
मू. ( २८५ )
अहो ते अज्जवं साहू, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ।
वृ. अहो ‘ते' तव ‘आजवम्' ऋजुत्वं 'साधु' शोभनम्, अहो ते साधु 'मार्दवं' मृदुत्वम्, अहो ते 'उत्तमा' प्रधाना 'क्षान्तिः ' कोपोपशमलक्षणा, अहो ते 'मुक्तिः ' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णद्वारेणाभिष्टुस्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाह
मू. ( २८६ )
इहंऽसि उत्तमो भंते!, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छति नीरओ ॥
वृ. 'इह' अस्मिन् जन्मनि 'असि' भवसि 'उत्तमः ' प्रधानः, उत्तमगुणान्वितत्वात्, 'भंते'त्ति पूज्याभिधानं 'प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह - लोकस्य चतुर्दशरज्ज्वात्मकस्य ‘उत्तमम्' उपरिवर्ति लोकोत्तमम् 'उत्तमं' देवलोकाद्यपेक्षया प्रधानम्, अथवा 'लोगोत्तममुत्तमं 'ति मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तमं तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह - 'सिद्धि' मुक्तिं 'गच्छति'त्ति सूत्रत्वाद्गमिष्यसि, निर्गतो रजसः - कर्मण इति नीरजा इति सूत्रार्थः ॥ उपसंहारमाहएवं अभित्थुणंतो रायरिसिं उत्तमाए सद्धाए ।
मू. ( २८७ )
पायाहिणं करेंतो पुनो पुनो वंदती सक्को ॥
वृ. ‘एवम्' अमुनोक्तन्याये अभिष्टुवन् 'राजर्षिम्' उक्तरूपं, प्रक्रमान्नमिम्, 'उत्तमया' प्रधानया 'श्रद्धया' भक्त्या 'पायाहिण' न्ति प्रदक्षिणां 'कुर्वन्' विदधत् पुन: पुन: 'वन्दते' प्रणमति 'शक्र: ' पुरन्दर इति सूत्रार्थः । अनन्तरं च यत् कृतवांस्तदाहतो वंदिऊण पाए चक्कंकुसलक्खिए मुनिवरस्स । आगासेणुप्पतिओ ललियचवलकुंडलतिरीडी ॥
मू. ( २८८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org