SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ उत्तराध्ययन-मूलसूत्रम्-१-९/२७९ प्रार्थयसि यत्तत्सङ्कल्पेनैव उक्तरूपेण विहन्यसे-बाध्यसे, कथं ह्यन्यथा विवेकनस्तवैतत् सम्भवेत् ? । अनेन च यः सद्विवेको नासौ प्राप्तान् विषयानप्राप्ताकाङ्क्षया परिहरति, यथा ब्रह्मदत्तचक्रवर्त्यादिः, सद्विवेकश्च भवानित्यादिनीत्या हेतुकारणे सूचिते इति सूत्रार्थः ।। मू.(२८०) एयमटुंनिसामित्ता० वृ. तदनु 'एय' सूत्रं प्राग्वत् ।मू.(२८१) सलं कामा विसं कामा, कामा आसीविसोपमा। ___ कामे पत्थेमाणा, अकामा जंति दंग्गई। वृ.शलति देशान्तश्चलतीति शल्यं-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यं, के ते?काम्यमानत्वात्कामाः मनोज्ञशब्दादयः, यथा हिशल्यमन्तश्चलद्विविधबाधाविधायि तथैतऽपि, तत्त्वत एषामपि सदा बाधाविधायित्वात्, तथा वेवेष्टि-व्याप्नोतीति विषं-तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो-दंष्ट्रास्तासु विषयस्येत्याशीविषस्तदुपमाः, यथा ह्यमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किंच-कामान् 'प्रार्णयमाना' अभिलषन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि अकामा' इष्यमाणकामाभावात् 'यान्ति' गच्छन्ति दुर्गति' दुष्टां नरकादिगति, तदनेन न केवलं शल्यादिवदनुभूयमाना एवामी दोषकारिणः, किन्तु प्रार्थ्यमाना अपीत्युक्तं भवति। ___ तथा च-'यः सद्विवेको नासौ प्राप्तमप्राप्तकाङ्क्षया' इत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्तस्याप्यपायहेतोः तदुच्छेदकप्राप्त्यर्थं विवेकिभिः परिहियमाणत्वाद्, अनभ्युपगतोपालम्भश्चायं, मुमुक्षूणां क्वचिदाकाङ्या एवासम्भवात्, उक्तं हि-'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति सूत्रार्थः । कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्ति?, अत आहमू.(२८२) अहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडिग्घाओ, लोहाओ दुहओ भयं॥ वृ.'अधो' नरकगतौ 'व्रजति' गच्छति 'क्रोधेन' कोपेन, 'मानेन' अहङ्कारेण 'अधमा' नीचा गतिः, भवतीति गम्यते, 'माय'त्ति सुब्व्यत्ययात्, ‘मायया' परवञ्चनात्मिकया गते:प्रस्तावात् सुगतेः प्रतिघातो-विनाशो गतिप्रतिघातो भवति, 'लोभाद्' गाद्धर्यलक्षणात्, 'दुहतो'त्ति द्विधा द्विप्रकारम्-ऐहिकं पारत्रिकं च भविष्यति अस्मादिति भयं-दुःखं, तदाशङ्कातः साध्वसं वा, कामेषु हि प्रार्थ्यमानेष्ववश्यंभावी क्रोधादिसम्भवः, स चेदृग् इति कथं न तत्प्रार्थनातो दुर्गतिगमनमित्यभिप्रायः। यद्वा-सर्वमपि यदिन्द्रेिणोक्तं तत् कषायानुपातीति तद्विपाकानुवर्णनमिदमिति सूत्रार्थः । एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोदित्याहमू. ( २८३) अवउझिऊण माहणरुवं विउरुब्विऊण इंदत्तं । ___ वंदति अभित्थुणंतो इमाहि महुराहि वग्गूहि॥ वृ. अवउज्झिय'त्ति अपोह्य त्यक्त्वा 'ब्राह्मणरूपं' धिग्वर्णवेषं विउरुव्विऊणं'ति विकृत्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy