SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ९, [ नि. २७९ ] प्रमाणा:, तेऽपि 'असङ्ख्यकाः' सङ्ख्याविरहिताः, न तु द्वित्रा एव, मू. (२७७) पुढवी साली जवा चेव, हिरन्नं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इह विज्जा तवं चरे ॥ वृ. नरस्य लुब्धस्य, उपलक्षणत्वात्, स्त्रियाः पण्डकस्य वा, न तै: कैलाशसमैरपि सुवर्णरूप्यपर्वतैः ‘किञ्चिदपि' अल्पमपि परितोषोत्पादनं प्रति क्रियत इति शेषः, पठ्यते च'न तेणं' ति अत्र च सूत्रत्वाद्वचनव्यत्ययः, कुतः पुनरिदमित्याह- 'इच्छा' अभिलाषः 'हु'रिति यस्मादाकाशेन समा-तुल्या आकाशसमा 'अनन्तिका' अन्तरहिता, तथा चैतदनुवादी वाचकः"न तुष्टिरिह शताज्जन्तोर्न सहस्रान्न कोटितः । न राज्यान्नैव देवत्वान्नैन्द्रत्वादपि विद्यते ॥ " २६५ किं सुवर्णरूप्ये केवले एव नेच्छापरिपूर्तये इत्याशङ्कयाह- 'पृथ्वी' मही 'शालयः' लोहितशाल्यादयः, ‘यवा:' प्रतीताः, 'च: ' शेषधान्यसमुच्चायार्थः, 'एवः' अवधारणे स च भिन्नक्रमो नेत्यस्यानन्तरं योक्ष्यते, 'हिरण्यं' सुवर्ण ताम्राद्युपलक्षणमेतत्, 'पशुभिः ' गवाश्वादिभिः 'सह' सार्धं 'प्रतिपूर्णं' समस्तं पठन्ति च - 'सव्वं तं 'ति सर्वम्-अशेषं न तु कियदेव तत् - पृथिव्यादि 'न' इत् नैव 'जलं' समर्थं, प्रक्रमादिच्छापरिपूर्तये 'एकस्य' अद्वितीयस्य, जन्तोरिति गम्यते, 'इति' एतत् श्लोकद्वयोक्तं 'विज्ज' त्ति सूत्रत्वाद् विदित्वा यद्वा 'इती' त्यस्माद्धेतोः 'विद्वान्' पण्डित: ‘तप:’ द्वादशविधं 'चरेत्' आसेवेत, तत एव नि:स्पृहतयेच्छापरिपूर्तिसम्भवादितिभाव: । अनेन च सन्तोष एव निराकाङ्क्षतायां हेतुः, न तु हिरण्यादिवर्धनमित्युक्तं, तथा च हिरण्यादि वर्धयित्वेत्यत्र यदनुमानमुक्तं, तत्र साकाङ्क्षत्वलक्षणो हेतुरसिद्धः, न चाकाङ्क्षणीयवस्त्वपरिपूर्तेस्तस्य सिद्धत्वं, सन्तुष्टतया ममाऽऽकाङ्क्षीयवस्तुन एवाभावादिति सूत्रार्थः ॥ एयमहं निसामित्ताο मू. ( २७८ ) वृ. भूयोऽपि 'एयं' सूत्रं प्राग्वत् । नवरमविद्यमानविषयेषु विषयवाञ्छानिवृत्तोऽयमिति निश्चित्य सत्सु तेष्वभिष्वङ्गोऽस्ति उत न वेति विवेचयितुमिन्द्र उवाचअच्छेरगमब्भुदए, भोए जहित्तु पत्थिवा! । मू. (२७९) असंते कामे पत्थेसि, संकप्पेण विहम्मसि ॥ वृ.‘अच्छेरगं’ति आश्चर्यं वर्तते, यत् त्वमेवंविधोऽपि 'अब्भुदए 'त्ति अद्भुतकान् आश्चर्यरूपान् ‘भोगान्' कामान् ‘जहासि' त्यजसि, पठ्यते च- 'चयसि 'त्ति, 'पार्थिव !' पृथिवीपते !, पाठान्तरतश्च क्षत्रिय !, अथवा 'अब्भुयए' त्ति अभ्युदये, ततश्च यदभ्युदयेऽपि भोगांस्त्वं जहासि तदाश्चर्यं वर्तते, तथा तत्त्यागतश्च 'असतः' अविद्यमानान् कामान् 'प्रार्थयसे' अभिलपसि यत्तदप्याश्चर्यमिति सम्बन्धः, अथवाऽधिकस्तवात्र दोष:, 'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे ' विविधं बाध्यसे, एवंविधसङ्कल्पस्यापर्यवसितत्वाद्, उक्तं हि'अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम्। शक्रादयोऽपि नो तृसिं, विशेषाणामुपागताः ॥ " 44 यद्वा 'अच्छेरगमब्भुद 'त्ति मकारोऽलाक्षणिकः, ततश्च आश्चर्याद्भुतयोरेकार्थत्वेऽप्युपादानमतिशयख्यापनार्थम् अतिशयाद्भुतान् भोगान् जहासि पार्थिव ! असतश्च कामान् For Private & Personal Use Only www.jainelibrary.org Jain Education International --
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy