________________
२६४
उत्तराध्ययन-मूलसूत्रम्-१-९/२७२ न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं॥ वृ. 'मासे मासे' इति वीप्सायां द्विर्वचनं, 'तुः' इहोत्तरम् चैवकारार्थः, ततश्च मासे मास एव, न त्वेकस्मिन्नेव मासेऽर्धमासादौ वेति, 'यः' कश्चिद् ‘बालः' अविवेकः 'कुशाग्रेणैव' तृणविशेषप्रान्तेन भुंक्ते, एतदुक्तं भवति-यावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरति नातोऽधिकम्, अथवा कुशाग्रेणेति जातवेकवचनं, तृतीया तु ओदनेनासौ भुंक्त इत्यादिवत् साधकतमत्वेनाभ्यवहियमाणत्वेऽपि विवक्षितत्वात्, 'न' इति निषेधे 'स' इति यः कुशाग्रैर्भुक्ते स एवंविधकष्टानुष्ठाय्यपि सुष्टु-शोभन: सर्वसावधविरतिरूपत्वादाडिति-अभिव्याप्त्या ख्यातःतीर्थकरादिभिः कथितः स्वाख्यातः तथाविधो धर्मो यस्य सोऽयं स्वाख्यातधर्मा तस्य,चारित्रिण इत्यर्थः, 'कलां' भागम् ‘अर्घति' अर्हति, 'षोडशी' षोडशपूरणामित्युक्तं भवति, किं पुनस्तुल्योऽधिको वा?, षोडशांशसमोऽपि न भवति, ततो यदुक्तम्-'यद्यद् घोरं तत्तद्धर्माथिनाऽनुष्ठेयमनशनादिवदिति, अत्र घोरत्वादित्यनैकान्तिको हेतुः, घोरस्यापि स्वाख्यातधर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वाद्, अन्यस्य त्वात्मविघातादिवत्, अन्यथात्वात्, प्रयोगश्चात्र-यत् स्वाख्यातधर्मरूपं न भवति घोरमपिन तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽऽत्मवधादिः, तथा च गृहाश्रमः, तद्रूपत्वं चास्य सावद्यत्वाद्धिसावदित्यलं प्रसङ्गेन। शेषं प्राग्वदिति सुत्रार्थः ।। मू.(२७३)
एयमटुंनिसामित्ता० वृ. 'एय' सूत्रं प्राग्वत् । नवरं यतिधर्मे दृढोऽयमिति निश्चित्य दुरन्तोऽयमभिष्वङ्ग इति तदभावं परीक्षितमपि पुनः परीक्षितुमिदमिन्द्र उवाचमू. ( २७४) हिरन्नं सुवनं मणिमोत्तं, कंसं दूसंच वाहणं।
कोसं च वडइत्ता णं, तओ गच्छसि खत्तिया! ।। वृ. 'हिरण्यं' स्वर्णं 'सुवर्णं' शोभनवर्णं' विशिष्टवर्णिकमित्यर्थः, यद्वा हिरण्यं - घटितस्वर्णमितरत्तु सुवर्णं, मणयश्च-इन्द्रनीलादयो मुक्ताश्च-मौक्तिकानि मणिमुक्तं, तथा 'कांस्यभाजनादि 'दूष्यं' वस्त्राणि, 'चः' स्वगतानेकभेदसंसूचकः, वाहनं' रथाश्चादि, पठन्ति च-'सवाहणं'ति सह वाहनैवर्त इति सवाहनं हिरण्यादीति सम्बन्धः, 'कोषं' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं 'वडावइत्ता णं'ति वृद्धि प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूर्ती गच्छ क्षत्रिय!, अयमाशयः-यः साकाको नासौ धर्मानुष्ठानयोगो भवति, यथा मम्मणवणिक्, साकाङ्क्षश्च भगवान्, आकाङ्क्षणीयहिरण्यादिवस्त्वपरिपूर्तेः, तथाविधद्रमकवदिति । मू.(२७५)
एयमद्वंनिसामित्ता० वृ. ततः ‘एयं' सूत्रं पाग्वत्मू. ( २७६ )सुवन रूप्पस्स य पव्वया भवे, सिया हु केलाससमा अखंखया।
नरस्स लुद्धस्स न तेहि किंति, इच्छा हुआगाससमा अनंतया॥ वृ. सुवर्णं च रूप्यं च सुवर्णप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽर्षत्वाद्विभक्तिलोपः, तुशब्दः समुच्चये, ततः स्वर्णस्य रूप्यस्य च पर्वता इव पर्वता:-पर्वताप्रमाणाः राशयो भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह-'सिया हु'त्ति स्यात्, कदाचित्, हुरवधारणे भिन्नक्रमश्च, ततः ‘कैलाससमा' एव कैलासपर्वततुल्या एव, न त्वन्यलघुपर्वत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org