SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-९,[ नि. २७९] २६३ धर्मात् 'संयमः' उक्तरूपः श्रेयान्, शेषं पूर्ववत्, गोदानं चेह यागाद्युपलक्षणम्, अतिप्रभूतजनाचरितमित्युपात्तम्, एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वमर्थादावेदितं, तथा च यज्ञप्रणेतृभिरुक्तम् - "पट शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ।।" इयत्पशुवधे च कथमसावद्यता नाम?, तथा दानान्यप्यशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह "अशनादीनि दानानि, धर्मोपकरणानि च। साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ।।" शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमर्दहेतुतया सावद्यान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्ध । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः, प्रयोगश्च-यत्सावा नतत् प्राणिप्रीतिकरं, यथा हिंसादि, सावधानि च यागादीनि इति सूत्रार्थः॥ मू. (२६९) एयमटुंनिसामित्ता० वृ. 'एयमटुं' सूत्रं प्राग्वत् । नवरमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थं शक्र इदमवादीत्मू. (२७०) घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं। इहेव पोसहरओ, भवाहि मनुयाहिवा!। वृ.'घोर:' अत्यन्तदुरनुचरः, सचासावाश्रमश्च आङिति-स्वपरप्रयोजनाभिव्याप्त्या श्राम्यन्ति-खेदमनुभवन्त्यस्मिन्नितिकृत्वा घोराश्रमो-गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात्, _ "गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। पालयन्ति नराः शूरा क्लीबा: पाखण्डमाश्रिताः॥" तं 'त्यक्वा' अपहाय 'जहित्ता णं'ति क्वचित् पाठः, तत्र च हित्वा-'अन्यत्' एतद्वयतिरिक्तं कृषिपाशुपाल्यादि अशक्तकातरजनातिनिन्दितं 'प्रार्थयसे' अभिलषसि, ‘आश्रमं' प्रव्रज्यालक्षणं, नेदं क्लीबसत्त्वानुचरितं भवादृशानामुचितमित्यभिप्रायः । तर्हि किमुचितमित्याह'ईह' अस्मिन्नेव गृहाश्रमे, स्थित इति गम्यते, पोषं-धर्मपुष्टिं धत्त इति पोषधः-अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतः-आसक्तः पोषधरतः ‘भवाहि'त्ति भव, अणुव्रताधुपलक्षणमेतद्, अस्यैव चोपादानं पोषधदिनेष्ववश्यंभावतस्तपोऽनुष्ठानख्यापकं, यत आह आससेनः "सर्वेष्वपि तपोयोगः, प्रशस्त: कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतं पोषधं वसेद् ॥" इति 'मनुजाधिप!' नृपते! । अत्र च घोरपदेन हेतुराक्षिप्तः, तथाहि-यद्यद् घोरं तत्तद् धर्मार्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः, शेषमेतदनुसारतोऽभ्यूह्यमिति सूत्रार्थः । मू. (२७१) एयमटुंनिसामित्ता० ॥ वृ. 'एय' सूत्रं । प्राग्वत्मू. (२७२) मासे मासे उ जो बालो, कुसग्गेणं तु भुंजइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy