________________
२६२
उत्तराध्ययन-मूलसूत्रम्-१-९/२६३ शुभं-पुण्यमेधते-अन्तर्भावितण्यर्थत्वात् वृद्धि नयति। मू. (२६४) पंचिंदियाणि कोहं, मानं मायं तहेव लोहं च।
दुज्जयं चेव अप्पाणं, सव्वमते जिए जितं। वृ. कथमात्मन्येव जिते सुखावाप्तिरित्याह-'पञ्चेन्द्रियाणि' श्रोत्रादीनि 'क्रोधः' कोपः 'मानः' अहङ्कारः 'माया' निकृतिः तथैव 'लोभश्च' गार्द्धलक्षणः 'दुर्जयः' दुरभिभवः, 'च:' समुच्चये, ‘एव' इति पूरणे, अतति-सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः आत्मा-मनः, सर्वत्र च सूत्रत्वात् नपा निर्देशः, "सर्वम्' अशेषमिन्द्रियादि, उपलक्षणत्वान्मिथ्यात्वादि च, 'आत्मनि' जीवे 'जिते' अभिभूते 'जित'मिति अभिभूतमेव । ननु मनसि जिते जितान्येवेन्द्रियादीनीति किं पृथक् तज्जयाभिधानेन?, सत्यं, तथापि प्रत्येकं दुर्जयत्वख्यापनाय पृथगृपन्यास इत्यदोषः, यद्वा-'दुज्जयंचेवअप्पाणं'ति चकारो हेत्वर्थः, एव:' अवधारणे भिन्नकमश्च आत्मशब्दादनन्तरं द्रष्टव्यः, ततश्च-यस्माद् 'आत्मैव' जीव एव दुर्जयः ततः सर्वमिन्द्रियाद्यात्मनि जिते जितम्, अनेन चेन्द्रियादीनामेव दुःखहेतुत्वात्तज्जयतः सुखप्राप्तिः समर्थिता भवति । एवं च फलोपदर्शनद्वारेणैवंविधेव विजिगीषुता श्रेयसीत्याचष्टे, ततश्च यो नृपतिरित्याद्यपि तत्त्वतो विजीगीषुत्वदर्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रार्थः ।। मू.(२६५)
एयमटुंनिसामित्ता०॥ वृ. भूयोऽपि-'एय' सूत्रं प्राग्वत्। नवरमनन्तरपरीक्षातो द्वेषोऽप्यनेन परिहत इति निश्चित्य जिनप्रणीतधर्मं प्रति स्थैर्यं परीक्षितुकामः शक्र इदमवोचत्मू. (२६६) जइत्ता विउले जन्ने, भोइत्ता समणमाहणे।
दच्चा भोच्चा य जट्ठा य, ततो गच्छसि खत्तिया। वृ.'जइत्त'त्ति याजयित्वा 'विपुलान्' विस्तीर्णान् 'यज्ञान्' यागान् भोजयित्वा' अभ्यवहार्य श्रमणाश्च-निर्ग्रन्थादयो ब्राह्मणाश्च-द्विजाः श्रमणब्राह्मणास्तान, 'दत्त्वा' द्विजादिभ्यो गोभूमिसुवर्णादीन्, भुक्त्या च मनोज्ञशब्दादीन् इष्टवा च राजर्षित्वावाप्तौ स्वयं यागान् ततो गच्छ क्षत्रिय !, अनेन यद्यत्प्राणिप्रीतिकरं तत्तद्धर्माय, यथा हिंसोपरमादि, प्राणिप्रीतिकराणि चामूनि यादादीनीत्यादिहेतुकारणे सूचिते एवेति सूत्रार्थः॥ मू.(२६७)
एयमटुंनिसामित्ता० ॥ वृ. शक्रवचनानन्तरम् ‘एय' सूत्रं प्राग्वत् ! . मू. (२६८) जो सहस्सं सहस्साणं मासे मासे गवं दए।
तस्सावि संजमो सेओ, अदितंस्सवि किंचनं ।। __ वृ. यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे 'गवां' प्रतीतानां 'दए'त्ति दद्यात्, 'तस्यापि' एवं विधस्य दातुर्यादि कथञ्चिच्चारित्रमोहनीयक्षयोपशमेन 'संयमः' आश्रवादिविरमणात्मक: स्यात् तदा स एव श्रेयान्' अतिशयप्रशस्यः; कथंभूतस्यापि?-'अददतोऽपि' अयच्छतोऽपि 'किञ्चन' स्वल्पमपि वस्तु, यद्वा तस्सावि'त्ति तस्मादप्युक्तरूपाद्दातुरवधित्वेन विवक्षितात्, संयच्छति-प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु दर्शनादिति संयमः-संयमवान्, साधुरित्यर्थः, श्रेयान्' प्रशस्यतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org