SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ - अध्ययन-९,[नि. २७९] २६१ विधायिनः 'अत्र' इत्यस्मिन् प्रत्यक्षत उपलभ्यमाने मनुष्यलोके 'वध्यन्ते' निगडादिभिनियन्त्र्यन्ते 'मुच्यते' त्यज्यते 'कारकः' विधायकः, प्रकृतत्वादामोषणादीनां, 'जनः' लोकः, तदनेन यदुक्तं प्राग्-'आमोषकाद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छेति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तंयत्तु ‘यः सधर्मेत्यादि' सूचितं, तत्रापरिज्ञानतोऽनपराधिनामपि दण्डमादधतां सधर्मनृपतित्वमपि तावच्चिन्त्यमित्यसिद्धता हेतोरिति सूत्रार्थः ।। . मू.(२५९) एयमटुंनिसामित्ता० ॥ वृ. 'एय' सूत्रं प्राग्वत्, नवरमियता स्वजनान्तःपुरपुरादिप्रासादनृपतिधर्मविषयः किमस्याभिष्वङ्गोऽस्ति ? नेती वेति विमृश्य सम्प्रति द्वेषाभावं विवेक्तुमिच्छविजिगीषुतामूलत्वात् द्वषस्य तामेव परीक्षितुकामः शक्र इदमुक्तवान्मू. (२६०) जे केइ पत्थिवा तुब्भं, नानमंति नराहिवा। वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिया ! ।। वृ.ये केचित् इति सामस्त्योपदर्शकं 'पार्थिवाः' भूपालाः, 'तुब्भंति तुभ्यं 'नानमन्ति' न मर्यादया प्रवीभवन्ति, तुभ्यमिति च नमतियोगेऽपि चतुर्थीदर्शनात्, ‘मात्रे पित्रे च सवित्रे च नमामी' त्यादिवददुष्टमेव, पठ्यते च-'तुब्भं'ति, तत्र च तवेति शेषविवक्षया षष्ठी, नराहिवा' इत्यत्र अकारो इस्वदीर्घा मिथ' इतिलक्षणात्, ततश्च हे 'नराधिप!' नृपते! 'वशे' इत्यात्मायत्तौ 'तानि'ति अनानमत्पार्थिवान् ‘स्थापयित्वा' निवेश्य कृत्वेतियावत्, ततो गच्छ क्षत्रिय ! इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता, यथा भरतादिः, इत्यादिहेतुकारणे अर्थत: आक्षिप्ते इति। मू.(२६१) एयमटुंनिसामित्ता०॥ वृ. एवं तु सुरपतिनोक्ते 'एय' सूत्रं प्राग्वत्मू. ( २६२) जो सहस्सं सहस्साणं, संगामे दुज्जए जिने । एगं जिनेज्ज अप्पाणं, एस से परमो जओ। वृ. 'य' इत्यनुद्दिष्टनिर्देशे 'सहस्रं' दशशतात्मकं सहस्राणां प्रक्रमात् सुभटसम्बन्धिनां 'संग्रामे' युद्धे 'दुर्जये' दुरापपरपरिभवे 'जयेद्' 'अभिभवेत्, सम्भावने लिट्, 'एकम्' अद्वितीयं 'जयेद्' यदि कथञ्चिज्जीववीर्योल्लासतोऽभिभवेत्, कम्?-'आत्मानं' स्वं, दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः, 'से' इति तस्य जेतुः सुभटदशशतसहस्रजयात् 'परमः' प्रकृष्टः 'जयः' परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्वमुक्तं, मू. ( २६३) अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ?। अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहति॥ वृ.तथा च-'अप्पाणमेव'-त्ति तृतीयार्थे द्वितीया, ततश्चाऽऽत्मनैव सह 'युध्यस्व' संग्राम कुरु, यद्वा युद्धेरन्तर्भावितण्यर्थत्वात् युध्यस्वेति योधयस्व, कम्?-आत्मानं, इहाप्यात्मनैव सहेति शेषः, किं?, न किञ्चिदित्यर्थः, 'ते' तव 'युद्धेन' संग्रामेण, 'बाह्यत' इति बाह्यं पार्थिवादिकमाश्रित्य, यदिवा बाह्यत इति तृतीयार्थे तसिः, ततो बाह्येन युद्धेनेति सम्बध्यते, एवं च 'अप्पाणमेव'त्ति आत्मनैवान्यव्यतिरिक्तेनाऽऽत्मानं स्वं जइत्त'ति जित्वा 'सुखम्' ऐकान्तिकात्यन्तिकमुक्तिसुखात्मक ‘एधते' इत्यनेकार्थत्वाद्धातूनां प्राप्नोति, अथवा 'सुहमेहए'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy