________________
२६०
उत्तराध्ययन-मूलसूत्रम्-१-९/२४२ वृ. एवं च शक्रेणोक्ते एय' सूत्रं प्राग्वत्।मू.( २५४) संसयं खलु सो कुनइ, जो मग्गे कुणई घरं।
जत्थेव गंतुमिच्छेज्जा, तत्थ कुविज्ज सासयं॥ वृ. संशीतिः संशयः-इदमित्थं भविष्यति नवेत्युभयांशावलम्बनः प्रत्ययस्तं, 'खलुः' एवकारार्थः, ततः संशयमेव स कुरुते-यथा मम कदाचिद्गमनं भविष्यतीति, यो मार्गे कुरुते गृहं, गमननिश्चये तत्कारणायोगाद्, अहं तु न संशयित इत्याशयः, सम्यग्दर्शनादीनां मुक्तिं प्रत्यवन्ध्यहेतुत्वेन मया निश्चितत्वादवाप्तत्वाच्च, यदि नाम न संशयितस्तथापि किमिहैव गृहं न कुरुषे ? अत आह-'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुम् ‘इच्छेत्' अभिलषेत 'तत्थ'त्ति व्यवच्छेदफलत्वाद्वाक्यस्य तत्रैव-जिगमिषितप्रदेशे 'कुर्वीत' विदधीत स्वस्य-आत्मन आश्रयो-वेश्म स्वाश्रयस्तं, यद्वा शाश्वतं-नित्यं, प्रक्रमाद्गहमेव, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितमस्माभिस्तत् मुक्तिपदं, तदाश्रयविधाने च प्रवृत्ता एव वयं, ततस्तत्करणे प्रवृत्तत्वात्कथं प्रेक्षावत्त्वक्षति:?, तथा च यः प्रेक्षावानित्याद्यपि तत्त्वतः सिद्धसाधनतयैवावस्थितमिति सूत्रार्थः । मू. (२५५)
एयमटुंनिसामित्ता० ॥ वृ. ततः पुनरपि 'एय' सूत्रं प्राग्वत् ।मू. (२५६) आमोसे लोमहारे य, गंठिभेए य तक्करे।
नगरस्स खेमं काऊणं, ततो गच्छसि खत्तिया!॥ वृ. आ-समन्तात् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान्, लोभानि-रोमाणि हरन्तिअपनयन्ति प्राणिनां ये ते लोमहाराः, किमुक्तं भवति?-अतिनिस्त्रिंशतया आत्मविघाताशङ्कया च प्राणान् विहत्यैव ततः सर्वस्वमपहरन्ति, तथा त वृद्धा:-लोमहारा: प्राणहारा इति, तांश्च, ग्रन्थि-द्रव्यसम्बन्धिनं भिन्दन्ति-धुर्धरकद्विकर्तिकादिना विदारयन्तीति ग्रन्थिभेदास्तान्, चशब्दो भिन्नक्रमः, ततस्तदेव कुर्वन्तीति तस्करा:-सर्वकालं चौर्यकारिणस्तांश्च, यत आहुर्वैयाकरणाः'तद्हतो: करपत्योश्चौरदेवतयोः सुट्तलोपश्च' इहचोत्साद्येति गम्यते 'प्रविश्य पिण्डी' मित्युक्तौ भक्षयेतिवत्, यद्वा सप्तम्येवेयं बह्वर्थे चैकवचनं, ततश्चामोषादिषूपतापकारिषु सत्सु 'नगरस्स' पुरस्य 'क्षेमं' सुस्थं कृत्वा' विधाय 'ततः' तदनन्तरं गच्छ क्षत्रिय !, एतेनापि यः सधर्मा नृपतिः स इहाधर्मकारिनिग्रहकृत्, यथा भरतादिः, सधर्मनृपतिश्च भवानित्यादिहेतुकारणसूचना कृतैवेति सूत्रार्थः। मू. (२५७)
एयमटुंनिसामित्ता० ॥ वृ. इत्थं शक्रोक्तौ 'एय' सूत्रं प्राग्वत् !मू. (२५८) असइंतु मनुस्सेहि, मिच्छादंडो पउंजइ।
अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जनो। वृ. 'असकृद्' अनेकधा, 'तुः' एवकारार्थः, ततश्चासकृदेव ‘मनुष्यैः' मनुजैः 'मिथ्या' व्यलीकः, किमुक्तं भवति?-अनपराधिष्वज्ञानाहङ्काकादिहेतुभिरपाधिष्विव दण्डनं दण्ड:देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापार्यते, कथमिदमित्याह-'अकारिणः' आमोषाद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org