________________
२५९
अध्ययनं-९,[नि. २७९] सकादित्वात् समासः, प्राकारस्य विशेषणं, अत एव दुःखेन प्रधृप्यते-परैरभिभूयत इति दुष्प्रधर्षः स एव दुष्प्रधर्षकस्तं, पठन्ति च-'खंति' निउणं पागारं तिगुत्तिदुप्पधंसयंति, स्पष्टं । मू. ( २४९) धनुं परक्कम किच्चा, जीवं च ईरियं सदा।
धिइं च केयणं किच्चा, सच्चेणं परिमंथए । वृ. इत्थं यदुक्तं 'प्राकारादीन् कारयित्वे'ति तत्प्रतिवचनमुक्तं, सम्प्रति तु प्राकाराडालकेष्ववश्यं योद्धव्यं, तच्च सत्सु प्रहरणादिषु प्रतिविधेये च वैरिणि सम्भवत्यत आह'धनुः' कोदण्डं 'पराक्रमं' जीववीर्योल्लासरूपमुत्साहं कृत्वा 'जीवां च' प्रत्यञ्चां च 'ईर्याम्' ईर्यासमितिमुपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालं, तद्विरहितस्य जीववीर्यस्याप्यकिञ्चित्करत्वात्, ‘धृतिंच' धर्माभिरतिरूपां केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टिकात्मकं, ननु तदुपरि स्नायुना निबध्यते इदं तु केन बन्धनीयमित्याह-'सत्येन' मनःसत्यादिना 'पलिमंथए'त्ति बन्धीयात्, ततः किमित्याहमू. ( २५०) तवनारायजुत्तेणं, भेतूणं कम्मकंचुं।
मुनी विगसंगामो. भवाओ परिमुच्चति ।। वृ. 'तप:' षड्विधमान्तरं परिगृह्यते, तदेव कर्म प्रत्यभिभेदितया 'नाराचः' अयोमयो बाणस्तुद्यक्तेन प्रक्रमात् धनुषा, भित्त्वा' विदार्य कर्म-ज्ञानावरणादि कञ्चुक इव कर्मकञ्चकस्तं, इह कर्मकञ्चकग्रहणेनैवात्मैवोद्धतो वैरीत्युक्तं भवति, वक्ष्यति च-"अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिय'न्ति, कर्मणस्तु कञ्चकत्वं तद्गतिमिथ्यात्वादिप्रकृत्युदयवर्तिनः श्रद्धानगरमुपरुन्धत आत्मनो दुनिवारत्वात्, 'मुनिः' प्राग्वत्, कर्मभेदे जेयस्य जितत्वात् विगतः संग्रामो यस्य यस्माद्वेति विगतसंग्रामः-उपरतायोधनः सन्, भवन्त्यस्मिन् शारीरमानसानि दुःखानीति भवः-संसारस्तस्मात् परिमुच्यते, एतेन च यदुक्तं-'प्राकारंकारयित्वे'त्यादि, तत्सिद्धसाधनम्, इत्थं श्रद्धानगररक्षणाभिधानात् भवतश्च तत्त्वतस्तदविज्ञतेति चोक्तं भवति, न च भवदभिमतप्राकारदिकरणे सकलशारीरमानसक्लेशवियुक्तिलक्षणा मुक्तिवाप्यते, इतस्तु तदवाप्तिरपीति सूत्रत्रयार्थः॥ मू.( २५१)
एयमद्वंनिसामित्ता० ।। वृ. एवं च तेनोक्ते 'एय' सूत्रं प्राग्वत् ।मू. ( २५२) पासाए कारइत्ता णं, वड्डमाणगिहाणि य।
बालग्गपोइयाओ य, तओ गच्छसि खत्तिया॥ वृ. प्रसीदन्ति नृणां नयनमनांसि येषु ते प्रासादास्तान् उक्तरूपान् ‘वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याऽभिहितानि 'वालग्गपोइयातोय'त्ति देशीपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा, अन्ये त्वाकाशतडागमध्यस्थितं क्षुल्लकप्रासादमेव 'बालग्गपोइया य'त्ति देशीपदाभिधेयमाहुः, ततस्ताश्च क्रिडास्थानभूता: कारयित्वा, ततोऽनन्तरं गच्छ क्षत्रिय ! । एतेन च यः प्रेक्षावान् स सति सामर्थ्य प्रासादादि कारयिता यथा ब्रह्मदत्तादिः, प्रेक्षावांश्च सति सामर्थ्य भवान्, इत्यादिहेतुकारणयो:सूचनमकारीति सूत्रार्थः ।। मू. (२५३)
एयमटुंनिसामित्ता०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org