________________
अध्ययनं - ९, [ नि. २७९]
२५५
स्थामाश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः, यदिवा राज्यावस्थायामपि ऋषिरिव ऋषि:क्रोधादिपड्वर्गजयात्, तथा च राजनीति:
"कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं, तस्मिंस्त्यक्ते सुखी नृपः ।। "
तस्मिन् 'नमौ' नमिनाम्नि, 'अभिनिष्क्रामति' गृहात् कषायादिभ्यो वा निर्गच्छतीति मू. ( २३४ ) अब्भुट्ठियं रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेणं, इमं वयणमब्बवी ॥
वृ. 'अभ्युत्थितम्' अभ्युद्यतं 'राजर्षि' प्राग्वत् प्रव्रज्यैव स्थानं तिष्ठिन्ति सम्यग्दर्शनादयो गुणा अस्मिन्नितिकृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः, 'उत्तमं' प्रधानं, सुब्व्यत्ययेन सप्तम्यर्थे वाद्वितीया, ततः प्रव्रज्यास्थान उत्तमे 'अभ्युपगतं' तद्विपयोद्यमवन्तं 'शक्र: ' इन्द्रो 'माहनरूपेण' ब्राह्मणवेषेण, आगत्येति शेषः, तदा हितस्मिन् महात्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकाम: स्वयमिन्द्र आजगाम, ततः स 'इदं' वक्ष्यमाणम्, उच्यत इति वचनं वाक्यम् 'अब्रवीत्' उक्तवानिति सूत्रार्थः ॥ यदुक्तवांस्तदाह
मू. ( २३५ )
किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुच्चति दारुणा सद्दा, पासाएसु गिहेसु अ ? ॥
वृ. 'किम्' इति परिप्रश्ने 'नु' इति वितर्के ' भो' इत्यामन्त्रणे 'अद्य' एतस्मिन् दिने 'मिथिलायां' नगर्यां कोलाहलकेन-बहलकलकलात्मकेन सङ्कला:- व्याकुलाः कोलाहलकलसंकुलाः ‘श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तन्निराकरणायाह- दारयन्ति जनमनांसीति दारुणाः - विलपिताऽऽक्रन्दितादय:, क्व पुनस्ते ? - 'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु यद्वा 'प्रासादो देवतानरेन्द्राणा' मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्बन्धिष्वास्पदेषु 'गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ततश्च
मू. ( २३६ )
एयमद्वं निसामित्ता, हेउकारणचोइओ । ततो नमी रायरिसी, देविंदं इणमब्बीवी ॥
वृ. 'एनम्' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनि 'निशम्य आकर्ण्य हिनोति-गमयति विवक्षितमर्थमिति हेतु:, स च पञ्चावयववाक्यरूपः कारणं च-अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः- प्रेरित : हेतुकारणचोदितः, कोलाहलकसङ्कुला: दारुणा: शब्दां श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि - अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतु:, प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं वाक्यमिह हेतु:, शेषावयवविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्न मिति एतावन्मात्रं कारणम्, अनयोस्तु, पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थं, तथा चाह श्रुतकेवली
>
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org