________________
२५४
उत्तराध्ययन-मूलसूत्रम् - १-९ / २३०
'धर्मे' चारित्रधर्मे 'पुत्रं' सुतं ' स्थापयित्वा' निवेश्य, क्व ? - राज्ये 'अभिनिष्क्रामति' धर्माभिमुख्येन गृहस्थपर्यायान्निर्गच्छति, स्मेतीहापि शेष:, ततश्च प्रजित्वानित्यर्थः, प्राग्वत् तिव्यत्ययेन वा व्याख्येयं, 'नमि:' नमिनामा राजा पृथिवीपतिरिति सूत्रार्थः ॥ स्यादेतत् कुत्रावस्थित: ? कीदृशान् वा भोगान् भुक्त्वा सम्बुद्धः ? किं वाऽभिनिष्क्रामन् करोतीत्याहसो देवलोगसरिसे अंतेउरवरगतो वरे भोए । भुंजित्तु नमी राया बुद्धो भोगे परिच्चयइ ॥
मू. ( २६१ )
वृ. ‘सः' इत्यनन्तरमुद्दिष्टः 'देवलोगसरिसे 'त्ति देवलोक भोगैः सदृशा देवलोकसदृशाः, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'अंतेउपवरगतो' त्ति वरं प्रधानं तच्च तदन्तः पुरं च वरान्तःपुरं तत्र गतः - स्थितो वरान्तःपुरगतः, प्राकृतत्वाच्च वरशब्दस्य परनिपातः, वरान्तः पुरं हि रागहेतुरिति तद्गतस्य तस्य भोगपरित्यागाभिधानेन जीववीर्योल्लासातिरेक उक्तः, तत्रापि कदाचिद्वराः शब्दादयो न स्युः तत्सम्भवे वा सुबन्धुरिव कुतश्चिनिमित्तान्न भुञ्जीतापीत्याह'वरान्' प्रधानान् 'भोगान्' मनोज्ञशब्दादीन् 'भुक्त्वा' आसेव्य 'नमिः ' नमिनामराजा 'बुद्धः ' विज्ञाततत्त्वः ‘भोगान' उक्तरूपान् परित्यजति, स्मेति शेषः । इह पुनर्भोगग्रहणमतिविस्मरणशीला अप्यनुग्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थः ॥ किं भोगानेव त्यक्त्वाऽभिनिक्रान्तवान् ? मू. ( २३२ ) मिहिलं सपुरजनवयं बलमोरोहं च परियणं सव्वं ।
चेच्चा अभिनिक्खंतो एगतमहिट्ठिओ भयवं ॥
वृ. 'मिथिलां' मिथिलानाम्नीं नगरीं, सह पूरैः - अन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता तां न त्वेकामेव, 'बलं' हस्त्यश्वादि चतुरङ्गम् 'अवरोधं' च अन्तःपुरं 'परिजनं' परिवर्गं 'सर्वं' निरवशेषं, न तु तथाविधप्रतिबन्धानास्पदं किञ्चिदेव ' त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रव्रजितः, ‘एगंत'त्ति एकः - अद्वितीयः कर्म्मणामन्तो यस्मिन्निति, मयूरव्यंसकादित्वात् समासः, तत एकान्तो-मोक्षस्तम्‘अधिष्ठित:' इव आश्रितवानिवाधिष्ठितः, तदुपायसम्यग्दर्शनाद्यासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवाप्तेः, यद्वैकान्तं द्रव्यतो विजनमुद्यानादि भावतश्च सदा "एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥"
-
इति भावनात एक एवाहमित्यन्तो निश्चय एकान्तः, प्राग्वत् समासः, तमधिष्ठितः, ' 'भगवान्' इति धैर्यवान् श्रुतवान् वेति सूत्रार्थः । तत्रैवमभिनिष्क्रामति यदभूत्तदाह-यदिवा यदुक्तं 'सर्वं परित्यज्याभिनिष्क्रान्त' इति, तत्र कीदृक् तत् त्यज्यमानमासीदित्याह
मू. ( २३३ )
कोलाहलब्भूतं आसी मिहिलाए पव्वयंतंमि । तइया रायरिसिम्मि नमिम्मि अभिनिक्खमंतंमि ॥
वृ. कोलाहलः - विलपिताऽऽक्रन्दितादिकलकलः कोलाहल एव कोलाहलकः स भूत इति - जातो यस्मिंस्तत् कोलाहलकभूतम् आहितादेराकृतिगणत्वान्निष्ठान्तस्य परनिपातः, यदिवा भूतशब्द उपमार्थ:, ततः - कोलाहलक भूतमिति कोलाहलकरूपतामिवापनं हा तात ! मातरित्यादिकलकलाकुलिततया 'आसीत्' अभूत् मिथिलायां सर्वं गृहविहारारामादीति प्रक्रम:, क्व सति ? - ‘प्रव्रजति' प्रव्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्याव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org