________________
अध्ययनं-९,[नि. २७९]
२५३ पुष्पाणि-कुसुमानि तैश्चित्र:-कुर्बुर: मञ्जरीपल्लवपुष्पचित्रस्तं, यद्वा सहमञ्जरीपल्लवपुष्पैर्वर्तते यः स तथा चित्र-आश्चर्यो ऽनयोविशेषणसमासः, 'समिक्ख'त्ति आर्षत्वात् समीक्षते पर्यालोचयति, अनेकार्थत्वादनीकुरुते वा, वर्तमाननिर्देशः प्राग्वत्, यद्वा समिक्ख'त्ति समैक्षिष्ट समीक्षितवान् 'धर्म' यतिधर्म। यदा 'ते' त्वया पैतृके' पितुरागते राज्ये कृता-विहिताः कृत्यानि कुर्वन्ति-अनुतिष्ठन्ति कृत्यकरा-नियोगिनो बहवः-प्रभूताः, तदैव कृत्यकरत्वं स्वयं तव कर्तुमुचितमासीदित्युपस्कारः, 'तेषामि'ति कृत्यकराणां कृत्यं-परापराधपरिभावनादि कर्तव्यं 'परित्यज्य' व्रताङ्गीकारादपहाय अद्य 'कृत्यकरो' नियुक्तक:-अन्यदोषचिन्तको 'भवान्' त्वं, किमिति जात इति शेपः। तथा 'मोक्खाय घडसी'ति प्राकृतत्वान्मोक्षाय-मोक्षार्थं घटते' चेष्टते, तथा अत्तणिस्सेसकारए' त्ति आत्मनो निःशेषमिति-शेषाभावं प्रक्रमात् कर्मणः करोतिविधत्त इत्यात्मनिःशेषकारकः, यद्वा 'निस्सेस'त्ति निःश्रेयसो मोक्षस्तत्कारको। __'मोक्षमार्ग मुक्त्यध्यानं 'प्रतिपन्नेषु' अङ्गीकृतवत्सु साधुषु ब्रह्मचारिषु 'अहियत्थं'ति अहितार्थं निवारयन्' निषेधयन् 'न दोषं' परापवादलक्षणमस्येति शेषः, वक्तुम्' अभिधातुमर्हसि, यथा हि भवान् अहितान्निवारयन, कथं गर्हसीत्यादि, एवं नमिरपि अद्य कृत्यकरो भवानिति कृत्यकरत्वलक्षणादहितानिवारयति, तथा दुर्मुखोऽपि सञ्चयं किं करोषि ? इति सञ्चयत एवाहितानिषेधयतीति नायं परापवाद इति वक्तुमुचितं, यद्वा-'अहियत्यं निवारितो'त्ति सुब्ब्यत्ययादहितार्थानिवारयन्तं न 'दोष'मिति मतुब्लोपान दोषवन्तं वक्तुमर्हसि, तथा चार्षम्"रूसऊ वा परो ना वा, विसं वा परियत्तउ। भासियव्वा हिया भासा, सुपक्खगुणकारिया।।" इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. ( २२९) चइऊण देवलोगाओ उववन्नो मानुसंमि लोगंमि।
उवसंतमोहनिज्जो सरती पोराणियं जाइं॥ वृ. च्युत्त्वा 'देवलोकात्' प्रतीतात्, 'उत्पन्नः' जातः 'मानुषे' मानुषसम्बन्धिनि 'लोके' प्राणिगणे उपशान्तम्-अनुदयं प्राप्तं मोहनीयं-दर्शनमोहनीयं यस्यासावुपशान्तमोहनीयः 'स्मरति' चिन्तयति, स्मेतिशेषः, वर्तमाननिर्देशो वा प्राग्वत्, कामित्याह-'पोराणिय'ति पुराणामेव पौराणिकी, विनयादित्वात् ठक्, चिरन्तनीमित्यर्थः, 'जातिम्' उत्पत्ति, देवलोकादाविति प्रक्रमः, तद्गतसकलचेष्टोपलक्षणं चेह जातिरिति सूत्रार्थः ।। ततः किमित्याहमू. ( २३०) जाइं सरितु भयवं सहसंबुद्धो अनुत्तरे धम्मे।
पुत्तं ठवित्तु रज्जे अभिनिक्खमति नमी राया। वृ. 'जातिम्' उक्तरूपां स्मृत्वा, भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, यदुक्तं
"धैर्यसौभाग्यमाहात्म्ययशोऽर्क श्रुतधीश्रियः ।
तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः ।।" इति, तथापीह प्रस्तावागुद्धिवचन एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान्, सहत्तिस्वयमात्मनैव सम्बुद्धः-सम्यगवगततत्त्वः सहसम्बुद्धो, नान्येन प्रतिबोधित इत्यर्थः, अथवा 'सहस'त्ति आर्षत्वात् सहसा-जातिस्मृत्यनन्तरं झगित्येव बुद्धः, क्वेत्याह-'अनुत्तरे' प्रधाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org