________________
२५६
उत्तराध्ययन- मूलसूत्रम् - १-९ / २३६
" कत्थवि पंचावयवं दसहा वा सव्वहा न पडिसिद्धं । नय पुण सव्वं भन्नइ हंदी सवियारमक्खायं ॥ " (तथा) "जिनवयणं सिद्धं चेव भन्नती कत्थती उदाहरणं । आसज्ज उ सोयारं हेऊवि कहिंचि वोत्तव्वो ॥"
अथवाऽन्वयव्यतिरेकलक्षणो हेतु:, उपपत्तिमात्रं तु दृष्टान्तादिरहितं कारणं, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवात् नोदाहरणमस्ति, दृष्टान्तश्च प्रकृष्टमत्यादिज्ञानानाबाधाः परमसुखिनो मुनय इति ज्ञानानाबाधप्रकर्ष: निरुपमसुखत्वे हेतुरुच्यते, " हेतू अनुगमवइरेगलक्खणो सज्झवत्थुपज्जातो । आहरणं दिट्टंतो कारणमुववत्तिमेत्तं तु ॥"
इह हि आक्रमन्दादिदारुशब्दहेतुत्वमेव हेतु:, तस्योक्तन्यायेनान्वयान्वितत्वात्, सति चान्वये व्यतिरेकस्यापि सम्भवात्, इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुपपत्तिमात्रं कारणम्, एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन, प्रकृतमेव सूत्रमनुत्रियते, 'ततः ' प्रेरणाऽनन्तरं ‘नमि:' नमिनामा राजर्षिः 'देवेन्द्रं' शक्रम् 'इदं' वक्ष्यमाणम् 'अव्रवीत्' उक्तवानिति सूत्रार्थः ॥ मू. ( २३७ ) मिहिलाए चेइए वच्छे, सीतच्छाए मनोरमे ।
पत्तपुप्फफलोवेते, बहूणं बहुगुणे सता ॥
वृ. 'मिथिलायां' पुरि चयनं चितिः - इह प्रस्तावात् पत्रपुष्पाद्युपचयः, तत्र साधुरित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि चैत्यम्-उद्यानं तस्मिन्, 'वच्छे’त्ति सूत्रत्वाद्धिशब्दलोपे वृक्षैः शीता - शीतला छाया यस्य तच्छीतच्छायं तस्मिन्, मनः- चित्तं रमते - धृतिमाप्नोति यस्मिन् तन्मनोरमं-मनोरमाभिधानं तस्मिन्, पत्रपुष्पफलानि प्रतीतानि तैरुपेतं युक्तं पत्रपुष्पफलोपेतं तस्मिन्, 'बहूनां' प्रक्रमात् खगादीनां, बहवो गुणा यस्मात्तत् तथा तस्मिन्, कोऽर्थः ? - फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थ: ।। तत्र किमित्याहवाएण हीरमाणंमि, चेइयंमि मनोरमे ।
मू. ( २३८ )
Jain Education International
-
दुहिया असरणा अत्ता, एए कंदंति भो ! खगा ॥
वृ. 'वातेन' वायुना 'ड्रियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदायः, चितिरिहेष्टकादिचयः, तत्र साधुः - योग्यश्चित्यः प्राग्वत् स एव चैत्यस्तस्मिन्, किमुक्तं भवति?-अधोबद्धपीठिके उपरि चोच्छ्रितपताके 'मनोरमे ' मनोऽभिरतिहेतौ, वृक्ष इति शेषः, दुःखं सञ्जातं येषां ते दुःखिताः 'अशरणा: ' त्राणरहिता अत एव 'आर्ता:' पीडिता: 'एते ' प्रत्यक्षाः ‘क्रदन्ति' आक्रन्दशब्दं कुर्वन्ति 'भो' इत्यामन्त्रणे 'खगाः' पक्षिणः ।
इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत्स्वजनजनाक्रन्दनमुक्तं तत् खगक्रन्दनप्रायम्, आत्मा च वृक्षकल्प:, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेन उत्तरकालं च स्वस्वगतिगामितया द्रुमाश्रितस्वगोपया एवामि स्वजनादयः, उक्तं हि
I
"
"यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि यान्ति पुनः प्रभाते तद्वज्जगत्यसकृदेव कुटुम्बाजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥” इति, ततश्चाऽऽक्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनाभिधीयमानमसिद्धम्, एते हि स्वजनादयो
For Private & Personal Use Only
www.jainelibrary.org