________________
अध्ययनं - ९, [ नि. २७९]
२५७
वातेर्यमाणद्रुमविश्लिष्यत्स्वगा इव स्वस्वप्रयोजनहानिमेवाऽऽशङ्कमानाः क्रन्दन्ति, आह च"आत्मार्थं सीदमानं स्वजनपरिजनो रौति हाहारवार्तोभार्या चात्मोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वाऽन्यस्तत्र किञ्चिन्मृगयति हि गुणं रोदितीष्ठः स तस्मै ॥" एवं चाऽऽक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुकत्वमसिद्धं, स्वप्रयोजनहेतुकत्वात् तेषां तथा च भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थ: । ततश्चएयम निसामित्ता, हेउकारणचोइओ । ततो नमिं रायरिसिं, देविंदो इणमब्बवी ॥
मू. ( २३९ )
वृ. एनमर्थं हेतुकारणयोः - अनन्तरसूत्रसूचितयोश्चोदितः - असिद्धोऽयं भवदभिहितो हेतुः कारणं चेत्यनुपपत्त्या प्रेरित: हेतुकारणचोदितः, ततो नमि राजर्षि देवेन्द्रः 'इदं' वक्ष्यमाणम् अब्रवीत् इति सूत्रार्थः ॥ किं तदित्याह
मू. ( २४० )
एस अग्गी अ वाओ अ, एयं डज्झति मंदिरं । भगवं ! अंतेउरंतेणं, कीस णं नावपिक्खह ॥
वृ. ‘एष' इति प्रत्यक्षोपलभ्यमानः 'अग्निश्च' वैश्वानरः 'वातश्च' पवनस्तथा 'एतदि 'ति प्रत्यक्षं 'दह्यते' भस्मसात् क्रियते, प्रक्रमाद्वातेरितेनाग्निनैव, 'मन्दिरं' वेश्म, भवत्सम्बन्धीति शेषः, भगवन्तिति पूर्ववद्, 'अन्तेउरंतेन'ति अन्तः पुराभिमुखं 'कीस'त्ति कस्मात् ? 'णम्' इति वाक्यालङ्कारे 'नावप्रेक्षसे' नावलोकसे। इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं यथा ज्ञानादि, स्वं चेदं भवतोऽन्तः पुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः ॥
एयमद्वं निसामित्ता० ॥
मू. ( २४१ )
वृ. ततश्च ‘एयं' सूत्रं प्राग्वत् ॥ किमब्रवीत् ? इत्याहमू. (२४२ )
सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झए किंचणं ॥
वृ. 'सुखं' यथा भवत्येवं 'वसामः ' तिष्ठामः 'जीवामः ' प्राणान् धारयाम:, येषां 'मो' इत्यस्माकं 'नास्ति' न विद्यते 'किञ्चन' वस्तुजातं, यतः
,
इति न किञ्चिदन्तः पुरादि मत्सत्कं यतश्चैवमतो 'मिथिलायाम्' अस्यां पुरि दह्यमानायां न मे दह्यते ' किञ्चन' स्वल्पमपि, मिथिलाग्रहणं तु न केवलमन्तः पुराद्येव न मत्सम्बन्धि किन्त्वन्यदपि स्वजनजनादि स्वस्वकर्मफलभुजो हि जन्तवः तथा तथाऽस्मिन् भ्राम्यन्तीति किमत्र कस्य स्वं परं चेति ख्यापनार्थं । ततश्चानेन प्रागुक्तहेतोरसिद्धत्वमुक्तम्, तत्त्वतो ज्ञानादिव्यतिरिक्तस्य सर्वस्यास्वकीयत्वादित्यादिचर्चः प्राग्वदिति सूत्रार्थः ॥ एतदेव च भावयितुमाहचत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो ।
मू. ( २४३ ) 28/17
'एकोऽहं न च मे कश्चित्, स्वपरो वाऽपि विद्यते । यदेको जायते जन्तुम्रियतेऽप्येक एव हि ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org