________________
२२४
उत्तराध्ययन- मूलसूत्रम् - १-७ / १७८ पायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते, इत्यनेनाभिसम्बन्धेनायातस्याध्याययनस्योपक्रमादिद्वारचतुष्टयमुपवर्ण्यं तावद्यावन्नामनिष्पन्ननिक्षेते उरभ्रीयमिति नाम, अत उरभ्रनिक्षेपमाहनि. [ २४४] निक्खेवो उ उरब्भे चउव्विओ दुव्विहो य होइ दव्वंमि । आगमनोआगमओ नोआगमओ अ सो तिविहो ।
वृ.‘निक्षेप:' न्यासः, तुः पूरणे, 'उरभ्रे' उरभ्रविषय: 'चतुर्विधः' चतुष्प्रकारः, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे एव इति द्रव्योरभ्रमाह-द्विविधो भवति 'द्रव्य' इति द्रव्यविषयः, आगमनोआगमतः तत्रागमत उरभ्रशब्दार्थज्ञः तत्र चानुपयुक्तः, नोआगमतः पुनः, चस्य पुनरर्थत्वात्, 'स' इति द्रव्योरभ्र: 'त्रिविधः ' त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाहनि. [ २४५ ] जाण सरीरभवितव्वइरित्ते अ सो पुनो तिविहो । एगभविअ बद्धाऊ अभिमुहओ नामगोए अ ॥
वृ. ज्ञशरीरोभ्र उरभ्रशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते, भव्यशरीरो भ्रस्तु यस्तावदुरभ्रशब्दार्थं न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं, 'तद्वयतिरिक्तश्च' ताभ्यांज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तोभिन्नः तद्वयतिरिक्तः, च समुच्चये, 'स' तद्वयतिरिक्तः पुन: 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह - 'एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविकोयोऽन्तर एव भवे उरभ्रतयोत्पत्स्यते, तथा स एवोरभ्रायर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुष्क उच्यते, तृतीयमाह-‘अभिमुहतो नामगोए य'त्ति आर्षत्वादभिमुखनामगोत्रश्च तत्राभिमुखेसम्मुखे अन्तर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसम्बन्धिनी यस्य स तथोक्तः, अन्तर्मुहूर्तानन्तरमेवोरभ्रभवभावीति गाथार्थः ॥ भावोरभ्रमध्ययननामनिबन्धनं चाह
नि. [ २४६ ]
उरभाउनामगोयं वेयंतो भावओ उ ओरब्भो ।
तत्तो समुट्ठियमिणं उरब्भिज्जन्ति अज्झयणं ॥
वृ. उरभ्र- ऊरणकः तस्यायुश्च नाम च गोत्रं चोरभ्रायुर्नामगोत्रं, यदुदयादुरभ्रो भवति, 'वेदयन् ' अनुभवन्‘भावतो' भावमाश्रित्योरभ्रः, तुशब्दः पर्यायस्तिकमतमेतदिति विशेषणार्थः, 'ततो' भावोरभ्राद् दृष्टान्ततयेहाभिधेयात्समुत्थितम् उत्पन्नमिदमिति प्रस्तुतं यस्मादिति गम्यते, 'उरब्भिज्जं 'ति उरभ्रीयं ग्रहादित्वाच्छैषिकठप्रत्ययः 'इती'ति तस्माद् अध्ययनं प्रागुक्तनिरुक्तमुच्यत इति शेष इति गाथार्थः ॥ उरभ्रस्यैव चेह प्रथममुच्यमानत्वाद्बहुवक्तव्यत्वाच्चेत्थमुक्तम्, अन्यथा हि काकिण्यादयो ऽपि दृष्टान्ता इहाभिधीयन्ते एव, तथा चाह निर्युक्तिकृत्नि. [२४७] ओर अ कागिणी अंबए अ ववहार सागरे चेव । पंचे दिट्ठता उरब्भिज्जंमि अज्झयणे ॥
वृ. ‘उरभ्र' उक्तरूप: ‘काकिणि:' विंशतिकपर्दकाः 'उरब्भे य'त्ति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च 'अंबए य'त्ति आम्रकं च- आम्रफलं, व्यवहारश्च क्रयविक्रयरूपो वणिग्धर्मः, चस्य गम्यमानत्वात्, सागरश्च- समुद्रः, च सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते - पञ्चैवैते न तु न्यूनाधिकाः 'दृष्टान्ता' उदाहरणानि 'उरध्रीये' उरभ्रीयनाम्न्यध्ययन इति गाथार्थः ॥ सम्प्रति यदर्थसाधर्म्यादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org