SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२५ अध्ययनं-७,[नि. २४८] नि.[ २४८] आरंभे रसगिद्धी दुग्गतिगमणं च पच्चवाओ य। उवमा कया उरब्भे उरब्भिज्जस्स निज्जुत्ती ।। वृ. आरम्भणं आरम्भः-पृथिव्याधुपमर्दः, रसेषु-मधुरादिषु गृद्धि:-अभिकाङ्क्षा रसगृद्धिः, दुर्गतिगमनं च-नरकतिर्यगादिषु च पर्यटनं, प्रत्यपायश्चेहैव शिरश्छेदादिः, वक्ष्यति हि “सिरं छेत्तूण भुज्जति'त्ति शिरश्छेदादातरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा-सादृश्योपदर्शनरूपा, प्रक्रमादेभिरेवारम्भादिभिरथैः 'कृता' विहिता 'उरभ्रे' उरभ्रविषया, इदमुक्तं भवतिसाम्प्रतक्षिणो हि विषयामिषगृध्नवस्तांस्तानारम्भानारभन्ते, आरभ्य चोपचितकर्मभिः कालशौकरिकादिवदिहैव दुःखमुपलभ्य नरकादिकां कुगतिमाप्नुवत्तीत्युरभ्रोदाहरणता इहोपदय॑ते, काकिण्यादिसामदृष्टान्तोपलक्षणं चैतद्, 'उरभ्रीयस्य नियुक्ति'रिति निगमनमेतदिति गाथार्थः ।। इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिपेक्षावसरः, स च सूत्रे सति भवतीत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(१७९) जहाऽऽएसं समुद्दिस्स, कोइ पोसेज्ज एलयं। ओयणं जवसं देज्जा, पोसेज्जावि संयगणे॥ वृ.'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायात इत्यादेश:-अभ्यर्हितः प्राहुणकस्तं समुद्दिश्य' आश्रित्य यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यत इति कश्चित्' परलोकापायनिरपेक्षः ‘पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकं, कथमित्याह'ओदनं' भक्तं, तद्योग्यशेषान्नोपलक्षणमेतत्, 'यवसं' मुद्गमाषादि दद्यात्' तदग्रतो ढौकयेत्, तत एव पोषयेत्, पुनर्वचनमादरख्यापनाय, अपिः सम्भावने, सम्भाव्यत एवैवंविधः कोऽपि गुरुकर्मेति, 'स्वकाङ्गणे' स्वकीयगृहाङ्गणे, अन्यत्र नियुक्तका: कदाचिनौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तं, यदि वा 'पोसेज्जा विसयंगणे'त्ति विशन्त्यस्मिन् विषयो-गृहं तस्याङ्गणं विषयाङ्गणं तस्मिन्, अथवा विषयं-रसलक्षणं वचनव्यत्ययाद् विषयान्वा गणयन्-संप्रधारयन् धर्मनिरपेक्ष इति भावः, इहोदाहरणं सम्प्रदायादवसेयं, जहेगो ऊरणगो पाहुणयणिमित्तं पोसिज्जति, सो पीणियसरीरो सुण्हातोहलिद्दादिकयंगरागो कयकण्णचूलतो कुमारगा यतं नाणाविहेहिं कीलाविसेसेहिं कीलावेंति, तं च वच्छगो एवं लालिज्जमाणं दट्टण माऊए नेहेण य गोवियं दोहएण य तयणुकंपाए मुक्कमवि खीरं न पिबति रोसेणं, ताए पुच्छिओ भणति-अम्मो ! एस नंदियगो सव्वेहिं एएहिं अम्हसामिसालेहि अड्डेहिं जवसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिज्जति, अहं तु मंदभग्गो सुक्काणि तणाणि काहेवि लभामि, ताणिवि न पज्जत्तगाणि, एवं पाणियंपि, न य मं कोऽवि लालेति । ताए भण्णत्ति-पुत्त! नि.[२४९] आउरचिन्नाइं एयाई, जाइं चरइ नंदिओ। सुक्कत्तणेहिं लाढाहि, एयं दीहाउलक्खणं ॥ वृ. जहा आउरो मरिउकामो जं मग्गति पत्थं वा अपत्थं वा तं दिज्जति से, एवं सो नंदितो मारिज्जिहिति जदा तदा पेच्छिहिसि, इति सूत्रार्थः। ततोऽसौ कीदृशो जातः? किं च कुरुते? 28/15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy