________________
२२६
उत्तराध्ययन- मूलसूत्रम् - १-६ / १८० तओ स पुट्टे परिव्वूढे, जायमेदे महोयरे । पीणीए विपुले देहे, आदेसं परिकंखए ॥
वृ. 'तत' इत्योदनादिदानाद्धेतौ पञ्चमी, 'स' इत्युरभ्रः 'पुष्ट' उपचितमांसतया पुष्टिभाक् 'परिवृढ: ' प्रभुः समर्थ इतियावत् 'जातभेदा' उपचितचतुर्थधातुः अत एव 'महोदरः ' बृहज्जठरः ‘प्रीणितः’ तप्पित:, यथासमयमुपढौकिताहारत्वात्, एभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति " यस्य च भावेन भावलक्षण" मिति सप्तमी, किमित्याह-आदेशं 'प्रतिकाङ्क्षति' प्रतिपालयति, पाठान्तरतः 'परिकाङ्क्षति' इच्छति, न चास्य तत्त्वतः प्रतिपालनमिच्छा वा सम्भवति, अतः प्रतिकाङ्क्षतीव प्रतिकाङ्क्षतीत्युपमार्थोऽवगन्तव्यः, एवं परिकाङ्क्षती न्यत्रापि, इति सूत्रार्थः ॥ स किमेवं चिरस्थायी स्यादित्याह
मू. (१८१ )
मू. ( १८० )
जाव न एज्जति आएसो, ताव जीवति सेऽदुही। अह पत्तंमि आएसे, सीसं छेत्तूण भुज्जति ॥
वृ. ‘यावदि’ति कालावधारणे 'नेति' नायाति, कोऽसौ ? - आदेशः, तावत् नोत्तरकालं 'जीवति' प्राणान् धारयति, ‘सेऽदुहि' त्ति अकारप्रश्लेषात् स इत्युरभ्रोऽदुःखी सुखी सन्, अथवा वध्यमण्डनमिवास्यौदनदानादिनीति तत्त्वतो दुःखितैवास्येति दुःखी, 'अह पत्तंमि आएसे' अथानन्तरं 'प्राप्ते' आगते आदेशे श्रिता अस्मिन् प्राणा इति शिरः तच्छित्त्वा - द्विधा विधाय भुज्यते, तेनैव स्वामिना प्राहुणकसहितेनेति शेषः ।
सम्प्रति सम्प्रदायशेषमनुत्रियते ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु वधिज्जमाणं दट्टु तिसितोऽवि भएणं माऊण थणं नाभिलसति, ताए भण्णति - किं पुत्त ! भयभीतोऽसि ?, नेहेन पण्हुयंपि मं न पियसि, तेन भण्णइ-अम्म! कतो मे थणाभिलासो ?, ननु सो वरातो नंदितो अज्ज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विनिग्गयजीवो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारितो, तब्भयातो कतो मे पाउमिच्छा ?, ततो ता भण्णत्ति - पुत्त ! ननु तदा चेव ते कहियं, जहा - आउरचिन्नाई एयाइं०, एस तेसिं विवागो अनुपत्तो । एस दिट्टंतो इति सूत्रार्थः ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दार्ष्यन्तिकमाहमू. ( १८२ ) जहा खलु से ओरब्भे, आएसाए समीहिए।
एवं बाले अहम्मिट्टे, ईहति निरयाउयं ॥
वृ. 'यथा' येन प्रकारेण 'खलु' निश्चयेन 'स' इति प्रागुक्तस्वरूप उरभ्रः 'आदेशाय' आदेशार्थं 'समीहितः' कल्पितः सन् यथाऽयमस्मै भवितेत्यादेशं पारिकाङ्क्षति इत्यनुवर्तते, ‘एवम्' अमुनैव न्यायेन ‘बालः' अज्ञोऽधर्मो-धर्मविपक्षः पापमितियावत् स इष्टः-अभिलषितोऽस्येत्यधर्मिष्ठः, आहिताग्न्यादेराकृतिगणत्वादिष्टशब्दस्य परनिपातः, यद्वाऽधर्म्मगुणयोगादधर्मोऽतिशयेनाधर्मोऽधर्मिष्ठः ईहत इवेहते वाञ्छतीव तदनुकूलचारितया, किं तत् ? - 'नरकायुष्कं ' नरकजीवितमिति सूत्रार्थः । उक्तमेवार्थं प्रपञ्चयितुमाह
मू. (१८३ )
हिंसे बाले मुसावाई, अद्धाणमि विलोवए । अन्नदत्तहरे तेने, माई कन्हुहरे सढे ॥
वृ. हिनस्तीत्येवंशीलो हिंस्रः - स्वभावत एव प्राणव्यपरोपणकृत् 'बालः' अज्ञः,'
Jain Education International
For Private & Personal Use Only
पाठान्तरश्च
www.jainelibrary.org