SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -७, [ नि. २४९ ] क्रुध्यति हेतुमन्तरेणापि कुप्यतीत्येवंधर्मा क्रोधी, मृषा अलीकं वदति-प्रतिपादयतीत्येवंशीलो मृषावादी, 'अध्वनि' मार्गे 'विलुम्पति' मुष्णातीति विलोपकः, यः पथि गच्छतो जनान् सर्वस्वहरणतो लुटति, 'अन्नदत्तहरि 'त्ति अन्येभ्यो दत्तं - राजादिना वितीर्णं हरति अपान्तराल एवाच्छिनत्त्यदत्तहरः, अन्यैर्वाऽदत्तम्-अनिसृष्टं हरति -आदत्ते अन्यादत्तहरः- ग्रामनगरादिषु चौर्यकृत्, अत एव 'बालः' अज्ञः, विस्मरणशीलस्मरणार्थमेतदिति न पौनरुक्त्यं, सर्वावस्थासु वा बालत्वख्यापनार्थं, पाठान्तरश्च 'स्तेन: ' स्तैन्येनैवोपकल्पितात्मवृत्तिः, यद्वा - अन्यादत्तहरः अन्यादत्तं ग्रन्थिच्छेदादिनोपायेनापहरति स्तेनः क्षत्रादिखननेनेति विशेषो, 'मायी' वञ्चनैकचित्तः, 'कण्हुहर: ' कण्डु कस्यार्थं हरिष्यामि त्येवमध्यवसायी 'शठः ' वक्राचारः । इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥ मू. ( १८४ ) वृ. तथा स्त्रियश्च विषयाश्च स्त्रीविषयाः तेषु गृद्धः - अभिकाङ्क्षावान् स्त्रीविषयगृद्धः, चः प्राग्वत्, महान्-अपरिमितः आरम्भः अनेकजन्तूपघातकृद्वयापारः परिग्रहश्च धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुञ्जानः' अभ्यवहरन्, 'सुरां' मदिरां, 'मांसं' पिशितं, 'परिवूढे 'त्ति परिवृढः प्रभुरुपचितमांसशोणिततया तक्रियासमर्थ इतियावत्, अत एव परान् अन्यान् दमयतियत्कृत्याभिमतकृत्येषु प्रवर्तयतीति परन्दमः, मू. (१८५ ) अयकक्कर भोई य, तुंदिले चिय लोहिए । आउयं नरए कंखे, जहाऽऽएस व एलए । वृ. किंच - अज:- छागस्तस्य कर्करं यच्चनकवक्ष्यमाणं कर्करायते तच्चेह प्रस्तावामेदोदन्तुरमतिपक्कंवा मांसं तद्भोजी वा, अत एव 'तुन्दिल: ' जातबृहज्जठरः, चितम् - उपचयप्राप्तं लोहितं शोणितमस्येति चितलोहितः, शेषधातूपलक्षणमेतत्, 'आयुः' जीवितं, 'नरके' सीमन्तादौ काङ्क्षति तद्योग्यकर्म्मारम्भितया, कमिव क इव ? इत्याह- 'जहाएस व एडए 'त्ति आदेशमिव यथैडकः - उक्तरूपः । इह च 'हिंसे' इत्यादिना सार्धश्लोकेनारम्भ उक्तः, 'भुंजमाणे सुर' मित्यादिना चार्धद्वयेन रसगृद्धिः, 'आयुष्क' मित्यादिना चार्धेन दुर्गतिगमनं, तत्प्रतिपादनाच्चार्थतः प्रत्यपायाभिधानमिति सूत्रत्रयार्थः । इदानीं यदुक्तम् 'आयुर्नरके काङ्क्षती 'ति, तदनन्तरमसौ किं कुरुत इत्याह-यद्वा साक्षादैहिकापायदर्शनायाह मू. (१८६ ) आसनं सयनं जाणं, वित्ते कामाणि भुंजिया । दुस्साहडं धनं हिच्चा, बहु संचिणिया रयं ॥ - Jain Education International २२७ वृ. आसनं शयनं यानमिति प्राग्वत्, नवरं भुक्त्वेति सम्बन्धनीयं, 'वित्ते' त्ति वित्तं द्रव्यं, 'कामान्' मनोज्ञशब्दादीन् 'भुक्त्वा' उपभुज्य, दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ठु - आदरातिशयेनाहृतम्-उपार्जितं दुःखाहतं, यद्वा प्राकृतत्वात् दुःखेन संह्रियते-मील्यते स्मेति दुःसंहृतं 'धनं' द्रव्यं 'हित्वा' आसनाद्युपभोगेन द्यूताद्यसद्वययेन च त्यक्त्वा, तथा च मिथ्यात्वादिकर्मबन्धुहेतुसम्भवाद् 'बहु' प्रभूतं 'सञ्चित्य' उपार्ण्य 'रजः' अष्टप्रकारं कर्म । ततो कम्मगुरू जंतू, पच्चुप्पन्नपरायणे । अएव्व आगया कंखे, मरणंतंमि सोयति ॥ मू. (१८७ ) For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy