________________
अध्ययनं-६,[नि. २४३]
२२३ आर्षत्वाच्चैवं निर्देशः, ग्रामे उपलक्षत्वान्नगरादौ च 'अनियतः' अनियतवृतिः 'चरेद्' विहरेत्, अनेनापि निरपेक्षतैवोक्ता। चरंश्च किं कुर्यादित्याह-'अप्रमत्तः' प्रमादरहितः सन् ‘पमत्तेहिं ति प्रमत्तेभ्यो गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, 'पिण्डपातं' भिक्षां 'गवेषयेद्' अन्वेषयदेिित सूत्रार्थः ।। इत्थं प्रसक्तानुप्रसक्त्या संयमस्वरूपमुक्तं, तदुक्तौ च निर्ग्रन्थस्वरूपं, सम्प्रत्यत्रवादरोत्पादनार्थमाहमू. (१७८) एवं से उयाहु अनुत्तरनाणी अनुत्तरदंसी अनुत्तरनाणदंसणघरे।
अरहा नायपुत्ते भयवं वेसालीए वियाहिए। वृ. 'एवम्' अमुना प्रकारेण 'से' इति भगवान् ‘उदाहु'त्ति उदाहृतवान्, 'अनुत्तरज्ञानी' सर्वोत्कृष्टज्ञानवान्। ननु चानुत्तरज्ञानीति मत्वर्थीयेन न भवितव्यं, बहुव्रीहिणैव तदर्थस्योक्तत्वात्, सत्यम्, अनुत्तरज्ञानशब्दोऽयं गौरखरशब्दवत् संज्ञाप्रकार एव, केवलज्ञानवाचकत्वात् अस्य, ततो गौरखरवदरण्यमित्यादिवन्न दोषः, नास्योत्तरमस्तीत्यनुत्तरं तथा पश्यतीत्यनुत्तरदर्शी, सामान्यविशेषग्राहितया च ज्ञानदर्शननयोर्भेदः, यत उक्तम्-"जं सामण्णग्गहणं दंसणमेयं विसेसियं नाणं"ति, अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः।
ननु प्रागुक्ताभ्यां विशेषणाभ्यामस्यार्थस्योक्तत्वात्, कथं न पौनरुक्त्यम् ?, उच्यते, अस्यान्याभिप्रायत्वात्, अत्र हि अनुत्तरज्ञान्यनुत्तरदर्शिति भेदाभिधानेन ज्ञानदर्शनयोभिन्नकालमाह, ततश्च मा भूदुपयोगवल्लब्धिद्वयमपि भिन्नकालभावीति व्यामोह इत्युपदिश्यते ज्ञानदर्शनधरः, अर्हति देवादिभ्यः पूजामित्यर्हन्, स चार्थात्तीर्थकृत्, ज्ञात:-उदारक्षत्रियः स चेह प्रस्तावात सिद्धार्थः तस्य पुत्रो ज्ञातपुत्रः-वर्तमानतीर्थाधिपतिर्महावीर इतियावत् 'भगवान्' समग्रैश्वर्यादिमान् 'वेसालीय'त्ति विशाला:-शिष्याः तीर्थं यशःप्रभृतयो वा गुणा विद्यन्ते यस्येति विशालिक: "इनि ठना" विति ठन्, यद्वा विशालेभ्यः-उक्तस्वरूपेभ्यो हित इति हितार्थे ठन्प्रत्ययः, ततश्च विशालीयः 'वियाहिए'त्ति व्याख्याता सदेवमनुजासुरायां पर्पदि विशेषेणानन्यसाधारणात्मकेनाख्याता-कथयिता, केचित्त्वधीयते-‘एवं' से उदाहुअरिहा पासे पुरिसादानीए भगवं वेसालीए बुद्धे परिनिव्वुए'त्ति स्पष्टमेव, नवरमर्हन्निति सामान्योक्तावपि प्रक्रमात् महावीरः, पश्यति समस्त भावान् केवलालोकेनावलोकत इति पश्यः, तथा पुरुषश्वासौ पुरुषाकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः, पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थं, पुरुषैर्वाऽऽदानीयो ज्ञानादिगुणतया पुरुषादानीय इति सूत्रार्थः ।। इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववद्वाच्याः ।
अध्ययनं-६ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं षष्ठमध्ययनं सनियुक्तिः सटीकं समाप्तम्।
अध्ययनं ७-औरभ्रीयं वृ.॥ व्याख्यातं क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तं, तच्च रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org