________________
२२२
उत्तराध्ययन-मूलसूत्रम्-१-६/१७५ मू.(१७५) विविच्च कम्मणो हेर्ड, कालकंखी परिव्वए।
मायं पिंडस्स पाणस्स, कडंलध्द्रण भक्खए। वृ. विविच्य' पृथक्कृत्य कर्मणो' ज्ञानावरणादेः ‘हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम् अनुष्ठानप्रस्तावं काश्त इत्येवंशील: कालकाङ्क्षी, 'परिव्रजे' रिति पूर्ववत्, पठन्ति च 'विगिंच कम्मुनो हेउ'न्ति अत्र च वेविग्धि' परित्यजेत्युपदेशान्तरतया व्याख्येयं, मात्रां यावत्या संयमनिर्वाहस्तावती, ज्ञात्वेती गम्यते, कस्य?- 'पिण्डस्य' ओदनादेरन्नस्य पानस्य च' आयामादेः, स्वाद्यस्वाद्यानुपादानु च यतेः प्रायस्तत्परिभोगासम्भवात्, कृतम्-आत्मार्थमेव निर्वर्तितं, गृहिभिरिति गम्यते, प्रक्रमातिगण्डादिकमेव लब्ध्या' प्राप्य भक्षयेद्' अभ्यवहरेदिति सूत्रार्थः ।। कदाचिद्भुक्तशेषं धारयतोऽभिष्वङ्गसम्भवः स्यादित्याहमू. (१७६) सन्निहिं च न कुब्विज्जा, लेवमायाय संजए।
पक्खी पत्तं समायाय, निरवेक्खो परिव्वए। वृ.सम्यग्-एकीभावेन निधीयते-निक्षिप्यतेऽनेनाऽऽत्मा नरकादिष्विति सन्निधिः-प्रातरिदं भविष्यतीत्याद्यभिसन्धितोऽतिरिक्ताशनादिस्थापनं तं च न कुर्वीत, चशब्द: पूर्वापेक्षया समुच्चये, 'लेवमायाय'त्ति लेपः-शकटाक्षादिनिष्पादितः पात्रगतः परिगृह्यते, तस्य मात्रामर्यादा, मात्राशब्दस्य मर्यादावाचित्वेनापि रूढत्वात्, यथोक्तम्
__"ईषदर्थक्रियायोगे, मर्यादायां परिच्छदे।
परिमाणे धने चेति, मात्राशब्दः प्रकीर्तितः ।।" लेपमात्रतया, किमुक्तं भवति?-लेपमेकं मर्यादीकृत्य न स्वल्पमप्यन्यत् सन्निदधीत, यद्वा परिमाणार्थोऽयं मात्राशब्दः, लक्षणे तृतीया, ततोऽयमर्थः-लेपमात्रयेति यावता पात्रमुपलिप्यते तावत्परिमाणमपि सन्निधिं न कुर्वीत, आस्तां बहुमित्यभिप्रायः, संयतो' यतिः, किमित्येवं पात्राद्युपकरणसन्निधिरपि न कर्तव्य इत्याह-'पक्खि'त्ति पक्षीव पक्षी, यथा पक्षी पतन्तं त्रायत इति पत्रं-पक्षसञ्चयं 'समादाय' गृहीत्वा व्रजति, एवं भिक्षुरपि पत्ते'त्ति पात्रमुपलक्षणत्वाच्छेषोपकरणं चादाय परिव्रजेदिति सम्बन्धः, कीदृग् ?-'निरपेक्षो' निरभिलाषः, तस्य वा विनाशादौ शोकाकरणतो निरपेक्षो-निरभिष्वङ्गः, तथा च प्रतिदिनमसंयमपलिमन्थभीरुतया पात्राद्युपकरणसन्निधिकरणेऽपि न दोष इत्यर्थः, अथवा यदि लेपमात्रयाऽपि सन्निधिं न कुर्वीत कथमागामिनि दिने भोक्तव्यमित्याह-पक्षीव निरपेक्षः, पात्रं पतद्गहादिभाजनमर्थात्तन्निर्योगं च समादाय व्रजेद्-भिक्षार्थं पर्यटेद, इदमुक्तं भवति-मधुकरवृत्त्या हि तस्य निर्वहणं, तत्कि तस्य सन्निधिना? इति सूत्रार्थः। सम्प्रति यदुक्तं 'कृतं लब्धवा भक्षयेदिति, तत्र कथं तल्लाभ इति तदुपायमाह- यद्वा-यदुक्तं 'निरपेक्षः परिव्रजेदि'ति तदभिव्यक्तिकर्तुमाहमू. (१७७) एसणासमिओ लज्जू, गामे अनियओ चरे।
अप्पमत्तो पमत्तेहिं, पिंडवातं गवेसए। वृ. एषणायाम्-उत्पादनग्रहणग्रासविषयायां सम्यगितः-स्थितः समितः एषणासमितः, प्राधान्याच्च इहैषणाया एवोपादानं, प्रायस्तद्भावे ईर्याभाषादिसमितिसम्भव इति ज्ञापनार्थं वा, अनेन निरपेक्षत्वमुक्तं, 'लज्जू'त्ति लज्जा-संयमस्तदुपयोगानन्यतया यतिरपि तथोक्तः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org