________________
अध्ययनं-६,[नि. २४३]
२२१ कायवाक्यं तेन, 'सर्वे' निरवशेषा गुरुपादुकातो मुक्तिः नास्ति वा मुक्तिरित्यादिवादिनोऽपि न केवलमार्यादिविदित्वा दुःखाद्विमुक्तिरितिवादिन एवेति भावः, 'ते' इति ये अप्रत्याख्याय पापमित्यादिवादिनो 'दुःखसम्भवाः' इहान्यजन्मनि च दु:खभाजनं इति सूत्रार्थः । यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाहमू. (१७३) आवना दीहमद्धाणं, संसारंमि अनंतए।
तम्हा सव्वदिसं पस्सं, अप्पमत्तो परिव्वए। वृ. आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तमध्वानमिवाध्वानम्-उत्पत्तिप्रलयरूपं, अन्यान्यभवभ्रमणेनैकत्रावस्थितेरभावात्, क्व ? -'संसारे' नरकादिगतिचतुष्टयात्मके 'अनन्तके' अविद्यमानान्ते, अपर्यवसितानन्तकायिकाद्युपलक्षितत्वेनेति गर्भः, 'तम्ह'त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् 'सव्वदिसं'ति सर्वदिशः-प्रस्तावादशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः, उक्तं च
"पुढवि जलजलणवाया मूला खंधग्गपोरबीया य। बितिचउपणिदितिरिया य नारया देवसंघाया॥१॥
संम्मुच्छिमकम्माकम्मभूमिगणरा तहंतरद्दीवा।
भावदिसा दिस्सइ जं संसारी नियममेयाहि ॥२॥" ___ 'पश्यन्' अवलोकयन् 'अप्रमत्तः' प्रमादविरहितः, यथैषामेकेन्द्रियादीनां विराधना न भवति तथा परिव्रजे:' संयमाध्वनि यायाः, यद्वा-संसारापन्नानां सर्वदिशः पश्य, दृष्ट्वा चाप्र-- मत्तो-निद्रादिप्रमादपरिहारतो यथैतासु न पर्यटसि तथा परिव्रजे: सुशिष्येति सूत्रार्थः । यथा चाप्रमत्तेन परिव्रजितव्यं तथा दर्शयितुमाहमू.(१७४) बहिया उड्डमायाय, नावकंखे, कयाइवि।
पुवकम्मक्खयट्ठाए, इमं देहमुदाहरे। वृ.'बहिय'त्ति बहिः, कोऽर्थः?-बहिर्भूतं भवादिति गम्यते, ऊर्ध्वं सर्वोपरिस्थितम् अर्थान्मोक्षमादायगृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य बुद्धया सम्प्रधार्येतियावत्, अथवा बहि:आत्मनो बहिर्भूतं धनधान्यादि ऊर्ध्वम् -अपवर्गमादाय-गृहीत्वा, हेयत्वेनोपादेयतया च ज्ञात्वेतियावत्, ‘नावकाङ्केत्' विषयादिकं नाभिलषेत्, न क्वचिदभिष्वङ्गं कुर्वीतेति तात्पर्यं, 'कदाचिदपि' उपसर्गपरीषहाकुलिततायामपि, आस्तामन्यदा, एवं सति शरीरधारणमप्ययुक्तमेव, एतद्धारणे सत्याकाङ्क्षासम्भवात्, तस्यापि चात्मनो बहिर्भूतत्वात्, अत आह-पुव्वेत्याद्यर्द्ध, पूर्व-पूर्वकालभावि तच्च तत्कर्म च पूर्वकर्म तस्य क्षयः तदर्थमिमं-प्रत्यक्षं 'देहं' शरीरं 'समुद्धरेद्' उचिताहारादिभोगतः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात्, तत्पाते हि भवान्तरोत्पत्तावविरतिरपि स्यात्, उक्तं च
"सव्वत्थ संजमं संजमातो अप्पाणमेव रक्खेज्जा।
मुच्चति अतिवायातो पुनो विसोही न याविरती।" ततः शरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः । यथा च देहपालनेऽपि नाभिष्वङ्गसम्भवः तथा दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org